________________
स्तोत्री
अवतीर्णतरुणतरणिप्रभप्रभास्वरयुवासु भूमीषु । तिमिरं न संशयमयं तिष्ठति भव्याङ्गिहृदयगतम् ७
__ अव–अवतीर्णौ तरुणतरणिप्रभौ प्रभास्वरौ युवां यासु विदेहभूषु तासु । अत्रापि प्राग्वत् गुणबहुत्वसूचनार्थ बहुवचनम् । अन्योऽन्यापमितयुवां, युवां जिनाधीश्वरौ ? विजेज्याथाम् । आव्योमसोमसूर्य महाविदेहाभरणभूतौ। ८ ।
अब.- अन्योऽन्येन कर्तभूतेन उपमितौ युवां ययोस्ती सम्बोधने, विपूर्वा जिधातोर्यङलुपि 'प्रकृतिग्रहणे यङ्लुबन्तस्यापि ग्रहण' मिति न्यायात् पञ्चम्या आत्मनेपदीययुष्मदर्थे द्विवचनं । आ व्योमसोमसूर्येभ्यः आ० पर्यपाङबहिरच पञ्चम्या' इत्यव्ययीभावः । ।३।१।३२।। सीमन्धरप्रभुयुगन्धरनामधेयौ,
भक्त्या स्तुतौ जिनवरौ युगपन्मयेति । अत्राप्यवाप्तजनुषः सुकृताऽऽशिषं त्वां,
दत्तां मम प्रमदतो नमतोऽनवेलम् ॥ ९ ॥ इति युष्मच्छब्दद्विवचनबहुव्रीहिबहुवचनप्रयोगगर्भः श्रीसीमन्धरयुगन्धरस्तवोऽष्टमः ॥ ९॥ ____ अव०-सुकृतं ते भूयादिति सुकृतविषया आशीः सुकृताशीस्तां, मयूख्यसकादित्वात् समासः ।९। अष्टमस्तवावचूरिः ।।
"Aho Shrut Gyanam"