________________
७१
ह्रींकारवर्णनस्तवनम् तभारद्विवटीभवत्कटिरिवेकारैकयष्टेरवष्टम्भात्तिष्ठति कष्टमुत्तमनरः सत्यं परार्थोद्यमः ॥९॥ स्वान्तस्थापितसर्वसार्वनिवहः संन्यस्तसर्वाशुभव्यापारः स्थविरत्ववक्रवलितश्चेकारदण्डं दधन् । यो रेखात्रययोगपट्टमुररीकृत्यौपतिष्ठत्यलं, दद्यासिद्धिमसौ स सौष्ठवकलो हींकारयोगीश्वरः ॥१०॥ यत्रेकारखलीनलीनवदनेऽध्यारुह्य सद्योगिनां, स्वान्तोद्यानवनान्तरे शशिकलापर्याणचर्याकृतौ । उच्चैः खेलति बिन्दुरूपपरमब्रह्माश्वचारः स वो, मायाबीजयः कुकर्मविजये भूयात्सहायः सदा ॥११॥ ख. गोयमतुर्यकस्वरधरोऽनुस्वाररूपं जटाजूटं मूनि कलाकलाधरकलं बिभ्रन् शिवोल्लासकः सर्वाभीष्टसुखप्रदः सुरसुरासंसेव्यमानोनिश !, श्री ह्रींकारहरस्त्रिपातकपुरक्षेप्ता तनोतु श्रियम् ।।१२।। ह्रींकारोऽस्ति तृणोटजस्तदुदरे साविली जानकी, रेखास्तत्परितश्च रामविहिताऽऽज्ञादानरूपाः किमु । तस्योर्ध्वं चतुरङ्गलाञ्छनकलालीलाविमानवरानुस्वारो दशकन्धरस्तदुपरित्वात्तिष्ठतीवोन्नता ॥१३॥ वज्ञा(ज्रा)गारमकारि धूर्त्तविधिना ह्रींकाररूपं कलि, स्तेनातङ्कवशाज्जिनार्थकलशोस्तस्योदरे न्यस्य च । बिन्दुशेखरिकश्च तस्य परितो रेखाश्च तिस्रः कृता, वप्रास्तिष्ठति तत्पुरो तु सततं क्रोंकार सत्क्रांतिकः ॥१४॥ कुर्वाणं वृषभासनं वसुमिता: सिद्धीददानं सतां, कण्ठेकालमहीनसन्निगरणं सोमादिमन्त्रप्रथम् ।
"Aho Shrut Gyanam"