________________
ह्रींकारवर्णनस्तवनम्
दलयतु दुरिताभितापप्रपन्नं विपन्नत्वदौस्थ्यं महद्द : खदुस्थानदुर्मानदुर्ध्यानदुर्गतसम्बाधजाबाधसंसाधनं,
कलयतु कुशलावलीसत्प्रणालीसमालीनचेतस्कसंलीनताघानवाः पानदानात् समाधानजध्यानसंधातुसालेन्धनम् । मम समदमनोज्ञमेधाविस्तुता शक्रचक्रेश्वरीभूतिभूतिस्थितविश्रुता शीघ्रभाविश्रुतार्थाव्ययार्था सुधार्थार्थिभिः संस्तुता, विधुतविधुतरस्वितेजस्विताभावलावण्यधर्मानमासौ
वसन्मानसाद्दत्तमत्ताखिलस्वान्तकामा च चक्रेश्वरीदेवता ॥४॥ इतिश्री वृषभ जिनस्तुतिः । ॥ इदं स्तुतिद्वयं कृतं पं. उदयधर्मगणिभिः,
विमलकुशलगणिना लिखिता ( तं ) ॥
| ह्रींकारवर्णन स्तवनम् । पद्मद्बोधविधात्म (य) कात्मधवलध्यानोदयः सर्वतः, शुष्यद्द: खदविघ्नपङ्कनिकरः सच्चक्रहर्षप्रदः । आत्मीयप्रकटप्रभावकिरणव्याधूतताम्यत्र भो, ह्रींकारस्तरणिस्तनोतु सततोद्योतं सतां चिन्मयम् ॥१॥ एनः सा तु विभेदभग्नरदनः कुम्भानुकारोन्नुताऽनुस्वारः पृथुपृष्टिरप्रतिमहत्पृष्टप्रदेशेंसलः । द्वैतीयीक गुरुस्व रायतकरः खण्डेन्दुरेखाङ्कुशो, वंशारूढ विशिष्टषड् जिज्न महामात्रोऽतिमात्रोन्नतः ॥ २ ॥
ऊक्तिक्रोडगतद्विरष्टपरमेष्ठ्यष्टापदीयस्फुरद्घण्ट: पादनिलीन रेफनिगुडः पद्माप्रतिष्ठावधिः ।
"Aho Shrut Gyanam"
६९