________________
SA
वीरस्तुतिः श्री वीरस्य पञ्चवर्गपरिहारस्तुति। हरहासयशोराशि सेवे हारं शिवश्रियः ।
रोषोर्वीरुहसंहार-वायुं वीरेश्वरं वरम् ॥१॥ विश्वश्रीसंश्रियः सार्व-विसरांह्रि (रोऽह्नि) सरोरुहम् । _ सुरहंसावलीसेव्यं सं श्रियात् पा(ल्या)लि वः श्रिये ॥२॥ सुरासुरविशां वारा सहर्षी (र्षा) यं हि शश्रुवुः।
श्रेयसेऽ(स) रहः सर्वे (सार्व)विहारविसरः स वः ॥३॥ शिवहारि सरोहंसं सार्व सार्वहसारवम् ।
१. हरः-शङ्करः हास:-हास्यं तद्वत् निर्मला-उज्वला यशसां राशिः यस्य स तम् । २. रोष:-क्रोधः स एव उर्वीरुहः-वृक्षः तस्य संहारे वायुः तम् । ३. विश्वा च या श्रीः तं संश्रयते योऽसौ अर्थात् समस्तलक्ष्मीस्थानरूपः । ४. सर्वं विदन्ति ये ते इति सार्वाः-तीर्थकृतः तेषां विसरः-समूहः । ५. सश्रिया-श्री:--लक्ष्मीः तेन सहिता तया, आल्या-पडक्त्या श्रेण्या, अर्थात् लक्ष्मीश्रेण्या, आसमन्तात् लिवति-भक्तजनान् स्पृशति अर्थात् भक्तजनैः लक्ष्मीश्रेण्या सम्बन्धकारी। ६. A सुराश्च असुराश्च विशश्च-जनाः तेषां वारा-समूहः। ६. B श्रुधातोः वशत्तित्वार्थं हि विवक्ष्याऽत्र वशीभूता इत्यर्थः। ७. वि--विशेषेण हारः-हरणं यस्मात् कर्ममलानामित्येतादृशं हितकारिवचः तस्य विसर:-संमूह इत्यर्थः । अरहः-न विद्यते रहः येभ्यः इत्येतादृशाः तथा सर्वं विदन्ति ये ते सार्वाः तत् सम्बन्धि । ८. शिव-मुक्तिपदं तदेव हारि-रमणीयं सरः तस्मिन् हंसभूतम् । ९. सार्वा:-सर्वज्ञाः ये सार्वा:-तीर्थकृतः तेषां हस:-प्रकाशमानः य आरव:-आ समन्तात् रौति-दिशति तत्त्वादिकं योऽसौ उपदेश इत्यर्थः तम् ।
"Aho Shrut Gyanam"