________________
•
२८
त्रिदश-तरङ्गिणी
सा माता भुवनत्रयस्य हृदि मे भूयात् स्थिरा शारदा || ५ ||
॥ युग्मम् ।। तादात्म्येन समस्तवस्तुनिकरान् स्याद्व्याप्य या संस्थिता, निर्व्यापारतया भवेदसदिवाशेषं जगद्यां विना वीणापुस्तक भृन्मराललुलितं धत्ते च रूपं बहिः, पूजार्हं भुवनत्रयस्य विशदज्ञानस्वरूपा धिया || ६ || साक्षेपं प्रतिपन्थिनाऽपि हि मिथः सस्पर्द्धसङ्घोद्धुराः, सर्वे वादिगणाः सतत्त्वममलं यं निर्विवादं श्रिताः । विश्वव्यापितया नया अपि समालीनाः पदन्तर्यतः, सार्हद्वक्त्रसुधातटाकवरला वाग्देवता पातु माम् ॥७॥ युग्मम् विश्वव्यापि सहत्वभागपि कवीन् हृत्पद्मकोशस्थिता, प्रादुष्यारसमग्र वाङ्मयसुधाम्भोधि समुत्तारयेत् । भित्त्वा मोहकपाटसम्पुटतटं धृत्वा प्रसत्ति परां, दद्याद् बोधिमनुत्तरां (रं) भगवती श्रीभारती सा मम । इत्यानन्दविदात्मिकां भगवतीं श्रीभारती देवतां,
शक्रालीमुनिसुन्दरस्तवगणैर्नूतक्रमां यः स्तुते | सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाऽद्वयो,
मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ||९|| इतियुग प्रधाना० स्रोतसि श्रीशारदास्तवाष्टकनामा द्वादशस्तरङ्गः ।
"Aho Shrut Gyanam"