________________
त्रिदश- तरङ्गिणी
मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥ २ ॥
इतितरङ्गप्रतिचूलाऽपि
जयश्रियाऽऽश्रितकेवलरूपया, दमलया सलयामल ! यातरूट् जगति शान्तिजिनाऽमरपादप-प्रतिमताऽतिमताऽतिमतान्तरुक् ॥ १ ॥ जितरवे तव वाणिसुधां पिबन्, वरसते रमते रमतेऽञ्जसा । अभिलषन् शिवसम्पदमत्र नो, नहभणी रमणी रमणीयके ॥ २ ॥ त्यजसि नाथ ! कदाचन चेन्मनो दममना ममनाऽमम नायक ! | न विशतां मरुतां तदिदं इलथ, कमलयाऽसलयाऽऽमलयाऽऽलय || ३ | शमरथस्य न के तव धुर्यतां, मधुरयाऽधुरयाऽधुरया गिरा । वशिगणेन यथा खलु तन्मनांस्यनवमानवमानव मा धूनात् ॥ ४ ॥ स्पृहयतो विषयांस्तव सर्वतो, विरतये रतये रतये न खे । अपहरन्ति धियं धिगिमेऽपि में, परमता रमतारमतागमः ॥ ५॥ त्वदुपदेशर मान्मनसाविभो, शममयाममया मम याच्यते । गतभवेच्छमनन्तसुखामिमां शिवरसां वरमांबर ! मां नय ॥ ६ ॥ सुतपसां गमसारतरागमाद् गमय मामयमामयमाश्रितम् । शिवरमाऽस्तु वशा विनतैव मे, प्रभवता भवता भवतारणा ॥ ७ ॥ वितरणे जगतां हितसन्तते - वितरता तरताऽतरतारक ! | शिवपदस्य जिनेश्वर ? सङ्गमं, परमया रमया रम यारमे ॥ ८ ॥ एवं स्तुतस्त्रिदशदानवमानवाऽच्र्यो, भक्त्या जगत्त्रयपतिः सकलार्थ वेदी । शान्तिर्जिनो भवभयातिहरो विलासं
देयान्महोदयपदाऽप्रतिमश्रियं मे ॥ ६ ॥ इतियुग प्रधाना० नमस्कार मङ्गलस्रोतसि श्रीशान्तिजिनयमकस्तवाष्टकनामा
तृतीयस्तरङ्गः ॥
श्रीशान्तिर्जगदेकमङ्गलततिप्रोद्यलता कन्दलप्रोल्लासाम्बुधरो भवाद्भवभृतः पायान्नताऽऽखण्डलः । रूपस्यैव निरूपणार्थमदधाच्चक्षः सहस्र हरि-deg' यस्य गुणांस्तथोरगपतिजिह्वासहस्रदृयम् ॥ १ ॥
"Aho Shrut Gyanam"