________________ अर्हन्नमे ! भृकुटियक्षपरक्ष्यमाण भक्तवजस्य विजयक्षितिपालसूनोः / गान्धार्युपास्यचरणस्य दधत्तवाऽऽज्ञां, मान्यो भवेन्मघवतामपि मुक्तिकाम्यः // 3 // वप्रायते स्म जगतीजनदूरगाया (?), सा पालने गुणततेः किल निर्मितायाः / वप्रेति तेन विदिताऽजनि यस्य माता, ज्ञानादिसम्पदमयं तनुतां नमिमें // 4 // मन्ये सदैव परिशीलनवाञ्छ्यायत् पादाम्बुजस्य निकटे घटयाञ्चकार / नीलोत्पलाङ्कमिषतः कमला स्वगेहं, स श्रीनमिः सृजतु मुक्तिरमां वशां मे // 5 // व्योमाग्निवायुजलभूत्रिगुणातिगाय, वाङ्मानसेन्द्रियगणाविषयस्वरूप ! / विश्वोपकारकृदनन्तगुणात्मकाय, सूक्ष्माय नाथ ! महते च नमोऽस्तु तुभ्यम् // 6 // यत्पूजनात् परममस्ति परं न पुण्य, ध्येयं न योगिततिभिः शिवकृद्यतोऽन्यत् / पापं न तन्न यदपति यदीयनाम्ना, तं देवदेवमसम नमिमानमामि // 7 // आरध्यते परमयोगिभिरीशिता यो, यस्मै पदाय विविधैः स्तवनायुपायैः / देयात् तदेव भगवान् स नमिर्ममापि, नैवाहतादि विमृशन्ति दयालवो यत् // 6 // स्तुतिमिति तनुते जिनेन्द्र ! यस्ते, मघवमहामुनिसुन्दरस्तुताः / "Aho Shrut Gyanam"