________________
न
किञ्चिद्वक्तव्यम्
अयि विबुधाः : जिनवरभक्तिरससक्तचेतसां भवतां करसरोरुहे जैनम्तोत्रसञ्चयस्य प्रथमोऽयं विभागः सादरं समर्प्यते । अत्र तिस्रः कृतयः सन्ति । तत्र प्रथमा अवरियुता अष्टादशस्तोत्री । अत्र युष्मच्छन्दप्रयोगगर्भा नब स्तवाः तथा अस्मच्छब्दप्रयोगगर्भा नव स्तवाः सन्ति । एतन्मूलस्य कर्ता श्रीसोमसुन्दरमरिः तत्सत्ताकालश्च वि० पञ्चदशशताबीरूपः, तथा अवचूरेः कर्ता श्रीसोमसुन्दरमूरिशिष्यः सोमगणिः तत्सत्ताकालश्च वि० पञ्चदशशताब्दीरूपः । एतच्च एतद्ग्रन्थान्तभागावलोकनात् सुस्पष्टमेव । द्वितीया पंचकल्लाणं थोत्त- अत्र प्रथमतीर्थकरस्य श्रीऋषभदेवस्य पञ्चभिः कल्याणकैः स्तुतिः कृताऽस्ति । अस्य कर्तनामप्रभृति न ज्ञायते, किन्तु अस्य वि० १२८५ वर्षे लिखिता ताडपत्रीया प्रतिः छाणीग्रामस्थज्ञानमन्दिरे समस्ति, तेन एतत् कर्ता वि० १२८५ वर्षात् प्राकालीन इति तु स्फुटमेव । तथा तृतीया कृतिः अवचूरिसंयुतो महावीरस्तवः । अस्य कर्ता पादलिप्तसूरिः । एतच्च
"Aho Shrut Gyanam"