________________
तृतीयः काण्डः।
३९ गिरिगुडो गिरियको गिरीयकोऽथ गिन्दुकः ॥ २३६ ॥ गेन्दुकोऽपि कन्दुके द्वौ, पार्थिवे नृपतिर्नृपः । भूप-भूपति-भूपालास्तथा मूर्नाभिषिक्तयुक् ॥ २३७ ॥ मूर्द्धावसिक्तो राजा राट् राज्ये महिन-माहिने । वसुदेवा वासुदेवा अईचकिषु संमताः ॥ २३८ ॥ तज्ज्येष्ठभ्रातृषु बला बलदेवाः, पृथौ नृपे । वेनिर्वैन्यो, भरते तु स्यात् सर्वदमनस्तथा ॥ २३९ ॥ सर्वदमः, सीतापतौ रामः स्याद् रामचन्द्रवत् । रामभद्रोऽपि, सौमित्रौ लक्ष्मणो लक्षणान्वितः ॥२४॥ कैकेयी कैकयी चास्याः पुत्रे तु भरतो मतः । भरथोऽप्यथ जानक्यां शीता तालव्य-दन्त्ययुक्॥२४१॥ इन्द्रसुते वालिर्वाली, मारुतो हनुमानिति । हनूमान्, भीमशत्रौ किर्मीरः कर्मीर-किर्मिरौ ॥२४२॥ हिडिम्बो डीकारयुक्तोऽर्जुने फल्गुन-फाल्गुनौ । बीभत्सो बीभत्सुरपि, पाण्डुसूनुषु पाण्डवाः ॥ २४३ ॥ पाण्डवायनाश्वाऽर्जुनधनौ गाण्डीव-गाण्डिवौ । धनुर्मात्रेऽप्यमू, हाले वाहनः सात-सालतः ॥ २४४ ॥ सालोऽपि, परिवारे तु परेबहश्च बहणम् । आतपत्रे प्रतपत्रं छत्रं छत्रश्च छत्र्यपि ॥ २४५ ॥ रोमगुच्छे चामरं स्याच्चमरश्वामरस्तथा । चामरापि, भृङ्गारे त्वालूराण्डूः, सचिवे पुनः ॥ २४६ ॥ अमात्य आमात्यो मन्त्री मन्त्रिश्च, द्वारपालके ।
"Aho Shrut Gyanam