________________
तृतीयः काण्डः ।
२३
मौष्कुलिर्मोष्कुलो, लिप्सौ लोलगणे लोलुभोऽपि च ॥ ६४ ॥ लोलोऽपि गर्धनो गृष्तु-गृतौ चेहेह ईहने ।
कामश्च कामना, धृष्टो धृष्णुः स्याद् धृष्णजा सह||६५॥ शुभंयुः शुभसंयुक्ते शुभंयथाप्यहंकृति । अहं योऽयुसंयुक्तः, कामुके कामि कामिनौ ||६६|| कामनः कमनः कम्रः कमरः कमितापि च । कामयिताऽभिक-भीकावन्तेर्दुर्विपरो मनाः ॥ ६७ ॥ विचेतस्यभिशस्ते तु स्यादक्षारित क्षारितौ । तिरस्कारे परीभावः पेरापर्यभितो भवः ॥ ६८ ॥ न्यक्कारः सनिकारः स्यात्, जागरूके तु जागरी । जागरिता, जागरणे जागर्या जागरस्तथा ॥ ६९ ॥ जागरा जाग्रिया, शङ्की संशयालुर्भवेदयम् । सांशयिको, दक्षिणा दक्षिण्यो दक्षिणीयकः ॥ ७० ॥ दण्डिते दाप्यतः प्रोक्तो दायितोऽपि तथोच्यते । अच्छे प्रतीक्ष्यो नियपि, पूजिते त्वपचायितः ॥ ७१ ॥ अपचितोऽथार्हणायां पूजा पूज्याऽथ पीनके । बहुलो बहलः स्थूर - स्थूलौ पीवा सपीवरः ॥ ७२ ॥ मांसलांसलौ निर्दिग्धे, कृशे शात-शितौ स्मृतौ । तीक्ष्णेऽप्येतौ बृहत्कुक्षौ तुन्दी तुन्दिक तुन्दिलौ ॥७३॥ तुन्दिभोऽप्युदरिकचोदरिलोदरिणौ समौ ।
१ अन्तर्मनाः, दुर्मनाः, विमनाः । २ पराभवः, परिभवः, अभिभवः ।
7
"Aho Shrut Gyanam"