________________
( २ ) "खरतरमतपाथोराशिवृद्धौ मृगाङ्काः ।।
यवनपतिसभायां ख्यापिताइन्मताज्ञाः । महतकुमतदपोंः पाठकाः साधुकीर्ति
प्रवरसदभिधानाः सिंहतुल्या जयन्ति । तेषां शास्त्रसहस्रसारविदुषां शिष्येण शिक्षाभृता
भक्तिस्थेन हि साधुसुन्दर इति प्रख्यातनाम्ना मया । ग्रन्थोऽयं विहितः कवीश्वरवचोबुद्ध्योक्तिरत्नाकरः
स्वाऽन्येषां हितहेतवे बुधजनैमान्यश्चिरं नन्दतु।,, इति। ते च कांस्कान् ग्रन्धानग्रन्थिषत इत्यपि नावगतं संपूर्णमधुना, किन्तु तेषां ग्रन्थरत्नत्रयमुपलभ्यते साम्प्रतम्- एकस्त्वयं कोशः, उक्तित्नाकरः, स्वोपज्ञक्रियाकल्पलताख्यटीकानिष्टङ्कितो धातुरत्नाकर श्चेति ।
तेषु एकेनैवानेन कोशसमीक्षणेन तेषां शब्दशास्त्रपारगतत्वमवगम्यते एव सहृदयानामिति । सत्स्वपि नैकेषु कोशेषु नायमेषामायास आयासः; यतस्तैरत्र शब्दार्थभेदसंग्रहं विधाय सर्वेभ्योऽपि कोशेभ्योऽयमत्यरेचि, तत्तु सुस्पष्टमेव शब्दविदामिति अयं च कोशः षटकाण्ड्या व्यभाजि तैः-तत्र क्रमेण, प्रथमोऽहत्काण्डः, देवकाण्डः, मानवकाण्डः, तिर्यकाण्डः, नारककाण्डः सामान्यकाण्डश्चेति । कोशमिमं कृत्वा तैः परमकारुणिकैः कवयोऽत्यन्तमुपकृता इति । अस्य च शोधनानेहसि लिखितपुस्तकत्रयमुपालप्स्वहि ततस्तेषां पुस्तक. दातृणां महोपकारं मन्वानी तान् नामप्राहमुल्लिखावः ।।
२ अस्मद्गुरू श्रीशास्त्रविशारदजैनाचार्याणां प्रतिद्वयं शुद्धं च, तयोरेकस्याः प्रान्ते "संवत् १७४८ फाल्गनकृष्ण १५ दिने श्रीवीकानेरमध्ये भटटारकङ्गमयुगप्रधान श्रीश्रीश्री १०८ श्रीजिनचन्द्रसूरिसूरीश्वराणां शिष्येण पण्डितनेमिसन्दरणालखि प्रतिरियम ॥ श्रीरस्तु । श्री" एवमल्लेखोऽस्ति । अन्यस्या अन्ते तु
"सप्ताब्धिगोत्रगोत्राप्रमिते संवति संवति ।। ___ माघस्याद्याष्टमीघने श्रीविक्रमपुरे पुरे ॥ श्री. लिलिख एष सद्ग्रन्थो जयसुन्दरसाधुना । ।
इयं प्रतिः स्थिरा भूयात् यावञ्चन्द्रदिवाकरौ ॥" एका तु श्रीयुतनेमचन्द्रयतिवर्याणाम् , तदन्ते तु "संवत् १७५६ फाल्गुन शुक्ल ५ दिने श्रीमेडतायां लिपीचके अस्यान्ते चैकोऽकारादिशब्दानुक्रमोऽपि दत्तः । प्रतिस्थलं च टिप्पणेन सुस्पष्टनमपि कृतम् । जागरूकमनसा शोधितेऽप्यस्मिन ज्ञानावरणीयोद्भवाः स्खलनाः निरस्यन्तः सज्जनाः प हंसायिभ्यन्ते
इति प्रार्थयेते हरगोविन्द-बेचरदासौ ।
"Aho Shrut Gyanam