________________
षष्ठः काण्डः ।
९१
अर्द्धा-नुपूर्व्य-भिमुखाः शब्दा योज्याः, दिवोऽचिं च । पृषोदरादित्वाद् दिवो द्युवाऽऽदेशः, यदुच्यते ॥ ५७ ॥ दिवः स्थाने दिवोऽचि स्याद् दिव् च दीर्घे पुनः परे । उकारोकारयोरुच्च पश्चातोऽर्घादिके तलुक् ॥५८॥ मध्यजाते मध्यमीयं मध्यमं माध्यमं तथा । मध्यन्दिनं माध्यन्दिनं मध्ये ऽभ्यन्तरमन्तरम् ||५९|| अन्तरालम्, समं तुल्ये समानं सदृशं सदृक् । सदृक्षमनुहारे तूपान्मान मिति मा मताः ||६०|| औपम्यमुपमा मुक्तेऽनुपमं स्यादनोपमम् । कथ्यते वर्चा प्रतिमा प्रतिमानमयोमयी ॥ ६१ ॥ शुर्मिः शूर्मी च तालव्यदन्त्यादी शूर्म इत्यपि । वामे "वि प्रतितो लोममपष्ठरमपष्ठुरम् ॥ ६२ ॥ प्रसव्यमपसव्यं चोच्छृङ्खले तु निरर्गलम् | अनर्गले भिन्ने त्वन्यदन्यतरदपीतरत् ॥ ६३ ॥ मिश्र करम्बः कबरम् तूर्णे त्वरित सत्त्वरे ।
7
१ दिव्शब्दस्य अचि सर्वस्मिन् स्वरे परे पृषोदरादिसामर्थ्याददन्तो दिवः, उदन्तो युवादेशः स्यात् । एतदेव चाऽग्रेतनेन गणरत्नमहोदधिस्थेन समासगणाध्यायान्तर्गामिनैकोन सार्धशतसंख्येन लोकेन प्रमाणयति ।
२ दिव्शब्दस्थाने स्वरे परे दिव आदेशः स्यात्, तस्यैव दीर्घे च स्वरे परे दिवू दिवश्वादेशौ स्याताम्, ऊकारोकारयोः परयोर्दिवो वस्य उकारोऽपि स्यात्, - दिवाधीशः, दिवीवरः, दिवेश्वरः, यूहा, दिवूहा, दिवोहेत्यादि ।
३ पश्चात् - शब्दस्य अर्घादिशब्दत्रये परे तो लुक् स्यात्, पश्चार्धम्, -पश्चानुपूर्वी, पश्चाभिमुखमिति । ४ उपशब्दाद् मादिशब्दत्रययोगः, उपमानम् उपमितिः, उपमेति । ५ वि-प्रतिभ्यां परं लोमम्, विलोममित्यादि ।
"Aho Shrut Gyanam"
"