SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ६४ समराङ्गणसूत्रधारे आक्रमे विजानीयाद् द्राविडाभक्रियान्वितम् । अष्टाण्डकं समुत्सेधाद् विस्ताराद् दशभागिकम् ॥ भद्रक्रमं द्वितीयं तु विद्यात् कर्मविभूषितम् । विस्तारो मूलमञ्जर्याद्वाविंशत्यंशसंमितः ॥ त्रयोविंशतिरुच्छ्रायः स्कन्धाचैव त्रयोदश । ग्रीवा (?) द्वयोत्सेधात् त्रिपदोन्नतमण्डकम् ॥ कर्परं द्विपदं भागचतुष्कं कलशांच्छ्रयः । प्रासा (दादे) द्वादशैतस्मिन्नुरोमञ्जरिका मताः ॥ अण्डकानां तु विज्ञेयं त्रिसप्तत्यधिकं मतम् । त्रैलोक्यभूषणं कृत्वा त्रिदशानन्दकारकम् ॥ कल्पान्तं यावदध्यास्ते पुरुषस्त्रिदशालयम् । त्रैलोक्यभूषणः ॥ प्रासादमथ पद्माख्यं कथयामोऽश्विनोः प्रियम् || चतुरश्रीकृते क्षेत्रे सप्तभागविभाजिते । त्रीन् भागान् मध्यमे त्यक्त्वा द्वौ ( द्वौ ) कोणेषु लाञ्छयेत् ॥ (सा द्वयेद्वभि) रष्टौ च पश्चादपि च षोडश । विस्तारार्धेन गर्भः स्याद् विस्तारार्धं तथा वहिः ॥ ऊर्ध्वमानमथ ब्रूमः पद्माख्यस्य यथाक्रमम् । विस्ताराद् द्विगुणोत्सेधं भागविंशतिभाजितम् ॥ वेदी जङ्घा तथैतस्मिन् कार्या मालाथ मञ्जरी । ग्रीवाण्डलशाह शङ्खवर्धनवर्त्मना || पद्माख्यः कारितो येन प्रासादो द(शत्र) वल्लभः । आत्मा समुद्धृतस्तेन पापपङ्कमहोदधेः ॥ पक्षवाहुमथ ब्रूमः प्रासाद कुलनन्दनम् । सर्वरोगहरं पुण्यं सर्वलोकक्षणं भवं (३) चतुरश्रीकृते क्षेत्रे द्वादशांश विभाजिते । अष्टभागातं गर्भं कुर्याद भित्तिर्द्विभागका || "Aho Shrut Gyanam" पद्माख्यः ॥
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy