________________
ચૂંટ
समराङ्गणसूत्रधारे
कन्दे (वि.द्विभागं कुर्वीत पुष्पशेखरकं ततः । द्विपदा बाह्यतः कर्णा विधातव्यास्तु वर्तुलाः || यथागात्रं विधातव्याः स्वस्तिकाकृतयश्च ते । चत्वारो रथिका (कन्दो कोणे कर्णे?) चतुष्टयम् ॥ पञ्चभागायतं भद्रं सार्धभागविनिर्गमम् । भद्रान्तपातिनी कुर्यात् प+ पदसंमिते ॥ शेषं भद्रं तु कर्तव्यं विस्तारेण त्रिभागिकम् । भागस्यार्धेन विस्तीर्ण तथा भागप्रवेशकम् ॥ एतत्प्रमाणं कर्तव्यमिह प्राज्ञैर्जलान्तरम् । तलच्छन्दानुगं भद्रं नन्द्यात्र ( त ? तें) यथाक्रमम् || ऊर्ध्वमानमथ ब्रूमो नन्द्यात्र(?) यथाक्रमम् । सार्धभागद्वयो च्छ्रा (यामासनं तस्यः) दूध्वेतः ॥ (कार्य तुलोदयस्य + ?) मध्ये भागैस्तथाष्टभिः । तुलोदयस्य मध्ये स्याद् वेदीबन्धो द्विभागि (केक)ः ॥ भागिकः कुम्भको (सेनः त्सेधो) मेखलाकलशान्वितः । चतुर्भागा भवेज्जङ्घा भागिकं भरणं भवेत् ॥ मेखलान्तरपत्रे तु भागेनेकन कल्पयेत् । पादेन राजसेनं स्याद् (वद्वत्तच पट्टतः ) || वेदी साष्टपदत्वा भागपादेन चासनम् । भागार्थेन नतं कुर्याद् भागं (पञ्चवलोकत ? ) || पादोनत्रिपदः स्तम्भः पल्लवैरुपशोभितः । हरग्रहणशीर्षं च कुर्याद् भागसमुच्छ्रिति ||
मेदोत्से छायकं द्विपदायतम् । भागेन कुर्यादुपरिपट्टिकां चारुकर्मणा (म्) | अंशांस्त्रीनुच्छ्रितः सिंहकर्णः स्याच्चतुरायतः । भूषितः (स्वरसे+न ? ) स च कार्योऽतिशोभनः ॥
१. 'यमासनं स्यात् त' इति स्यात् । २. 'कार्यस्तुलोदयस्तस्य' इति स्थात् । ३. चन्द्रावलोकनम्' इति स्यात् ।
"Aho Shrut Gyanam"