________________
२५८
समराङ्गणसूत्रधारे (यथा पन्थत्तास्वां पश्चाद् भूमिबन्धः कटेपिह!) । इति निगदितमेवं लक्षणं वर्तिकाना
(मिहकपदकुड्यक्ष्मानिविविविधेश्च?) । इदमखिलमवैति (पग्रन्थतो योऽर्थतश्च
(प्रतिवति स विधातुर्विभ्रमस्यास्य योगात्) ।। ४३॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनानि वास्तुशास्त्रे
भूमिबन्धो ना(मैकाम द्वि)सप्ततितमोऽध्यायः ॥
अथ लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः ।
लेप्यकर्म समृल्लक्ष्म (लक्षा?)लक्ष्म च कथ्यते । वापीकूपतटाकानि पग्रिन्यो दीर्घिकास्तथा ॥ १॥ वृक्षमूलं नदीतीरं गुल्ममध्यं तथैव च । मृत्तिकानामिति क्षेत्राण्युक्तान्येतानि तत्वतः ।। २ ।। तासां वर्णः सिताक्षौद्रसन्निभो गौर एव च । कपिलश्चेति ते स्निग्धाः शस्ता विप्रादिषु क्रमात् ।। ३ ।। (इन्द्रांशी?) मृत्तिका ग्राह्या स्थूलपाषाणवर्जिता। शाल्मली(शामा)पककु(भीम मधूकत्रिफलोद्भवम् ॥ ४॥ रसं विनिक्षिपेत् तस्यां (पैप्रेक्षस्यसिकथितां चपिः) । क्रमुकं(चनका?)बिल्वे सटालोमानि वाजिनः ॥ ५ ॥ गवां रोमाणि वा दद्यान्नालिकरस्य (कावल्कलम् । मृदा संयोज्य मृगीयाद् दद्याद् वा द्विगुणांस्तुषान् ।। ६ । (वॉलुकातीवतीचापि तपासांयोगयेन्मृदम्) । भागद्वयं मृत्तिका(यैःयां) कापासांशेन मिश्रयेत् ॥ ७॥
१. 'यथा पट्टे तथैव स्याद् भूमिबन्धः पटेऽपि सः' इति स्यात् २. 'लेखा' इति स्यात् । ३. 'प्रक्षिप्य सिकतामपि' इति स्यात् । ४. वालुका यावती चापि तावती योजयेन्मृदम्' इति स्यात् ।
"Aho Shrut Gyanam"