________________
१५९
पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः । इति प्रतिक्रमं पीठं क्षुरबन्धोऽधुनोच्यते । वि(भजेद) भागविंशत्या पीठोच्छ्रायं विचक्षणः ॥ २५॥ नीरवर्तिश्चतुर्भागा ++ + पद्मपत्रिका । कणिका भागमेकं स्याद् द्विभागं कुमुदं ततः ॥ २६ ॥ (भागं मेडथाक्षेपो?) मकरो भागिकस्तथा । भागमेकं विधातव्या ततो मकरपट्टिका ॥ २७ ॥ ('छेदा मकरपदं?) कुर्यात कण्ठमेकं पदं ततः । पट्टिको भागिकी विद्याद् भागिकी पद्मपत्रिका ॥ २८ ॥ कपोतं त्रिपदं कुर्यात् ततो नासिकया सह । छेदश्च भागिकः कार्यः क्षुरबन्धोऽयमीरितः ।। २९ ।। पीठपञ्चकमित्युक्तं मूत्रित पूर्वमेव यत् । पीठादूर्ध्वं तु विज्ञेया प्राज्ञैः खुरवरण्डिका ॥ ३० ॥ सन्ति चान्यानि पीठानि लक्ष्मभेदादनेकया । तेषां मध्ये प्रकृष्टत्वादेतत् पञ्चकमीरितम् ।। ३१ ।। प्रासादानथ वक्ष्यामस्तलच्छन्दादनन्तरम् ।। तत्र पद्मो महापद्मा वर्धमानस्तथापरः ॥ ३२ ॥ स्वस्तिकः सर्वतोभद्रः प्रासादाः पञ्च कीर्तिताः । चतुरश्रीकृते क्षेत्रे कर्णमूत्रं प्रसारयेत् ।। ३३ ॥ कर्णस्या ततः कृत्वा (गर्भाक्?) बहिर्नयेत् । तदग्रयोः मूत्रपातात् स्यादन्यचतुरश्रकम् ॥ ३४ ॥ कूटं कुर्याद द्विभागेन (समस्तत्राद्?) विचक्षणः । सूकराननसंस्थानं कुर्वीत सलिलान्तरम् ॥ ३५ ॥ एवं सर्वेषु कूटेषु सलिलान्तरमिष्यते । यदायतं भवेत् सूत्रचतुर्भागविभाजिते ।। ३६ ।। गर्भो द्विभागिकस्तेन भागिका भित्तिरुच्यते । गर्भकणार्धमादाय कोणा(स्तंन्त)लाञ्छयेत् पुनः ॥ ३७॥ १. 'छेदमेकं पदं ' इति स्यात् । २. ' समसूत्रादिति स्यात् ।
"Aho Shrut Gyanam"