SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २४६ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. १ सु. २१ यच्चोन्द्रयगुणैः सह लिङ्गस्य प्रतिबन्धप्रतिषेधार्थं प्रत्यक्षतोऽनुमानाद्वा सम्भाव्येतास्य निश्चय इत्यादि न्यगादि । तदपि परसमयरहस्यानभिज्ञस्य प्रलापमात्रम् । न खलु क्वचिदपि लिने प्रत्यक्षानुमानाभ्यां साध्येन सार्द्धं प्रतिबन्धावधारणमभिदधति स्याद्वादिनः । किं तूहापरपर्यायात्तर्काख्यात्प्रमाणान्तरात् । तस्माच्च पूर्वोपन्यस्तगुणानुमाने प्रतिबन्धः प्रतीयत एव । ततश्च । ५ एवं प्रमाणं सुदृढं गुणेषु प्रवर्त्तते सत्त्वविनिश्चयाय । प्रमाणमूला च पदार्थसिद्धिस्ततश्च ते नाश्वविषाणकल्पाः || २५५॥ इति सिद्धम् । यदि चैवं सुदृढप्रमाणप्रतिपन्नेष्वपि गुणेषु कुदि१० कल्पैर्विप्लवः क्रियते तर्ह्यप्रामाण्योत्पादकेषु दोषेष्वपि कः समाश्वासः । यथोक्तगुणविष्वैककुविकल्पजालस्य तत्रापि तुल्यत्वात् । तथाहि । अध्यक्षमक्षादिनिमित्तसङ्गतान् दोषान् ग्रहीतुं तिमिरादिकान् स्फुटम् । क्षमं न तावद्यदनेन वस्तुनि ज्ञाने न कश्चित्कलहायते सुधीः ॥ २५६ ॥ इत्यादि । १५ एवं न दोषेषु तच प्रमाणं प्रवर्त्तते सत्त्वविनिश्चयार्थम् । न चाप्रमाणे हि पदार्थसिद्धिस्ततश्च ते वाजिविषाणकल्पाः ॥ २५७॥ इति पर्यवसानः पधोपन्यासः समग्रोऽपि गुणदूषणे वा दोषदूषणेऽपि कर्त्तुं शक्यत एवेति । यदप्युक्तम्, यथार्थोपलब्धिलक्षणलिङ्गसमुत्थानुमानान्निर्दोषाणामेव कारणानां निश्वयो न तु सगुणानामिति । तदप्ययुक्तम् । उक्तन्यायेन गुणजन्यत्वेन तस्याः प्रसिद्धत्वात् । यत्पुनरुक्तम्, द्वेषा हीयमुपलब्धिरनुभूयते यथार्था चायथार्था चेति । तत्र न विप्रतिपद्यामहे । न हि यथार्थत्वायथार्थत्वे विहाय निर्विशेषमुपलब्धिसामान्यमुपपद्यते विशेषनिष्ठत्वात्सामान्यस्य । न खलु शाबलेयबाहुलेयादिविशेषविकलं गोत्वादिसामान्यं प्रतीयते । येनेदमुपलब्धि२५ सामान्यं यथार्थत्वायथार्थत्वविशेषविरहितं प्रतीयेत । यत्तु प्रतिपादितम्, १ पृष्टं निर्देष्टुं न शक्यते ग्रन्थस्य त्रुटितत्वात् । २० " Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy