________________
२३८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १८
सोऽप्यनुपपन्नः । चैतन्यसन्निधानस्य सदैव सद्भावेन बुद्धेरासर्गप्रलयस्थायिन्याः सदैव छायाछरितत्वापत्त्या सदा विषयव्यवस्थापकत्वप्रसक्तेः । न च बुद्धेः पारमार्थिकचैतन्याभावे विषयव्यवस्थापनशक्तिर्युक्ता
न खलु माणवकस्य पावकोपचारादाहादिजननशक्तिर्दृष्टा । ततः ५ परमार्थतो बुद्धिश्चिद्रूपा सिद्धा। तथा च प्रयोगः । बुद्धिः परमार्थतश्चिद्रूपा मुख्यतोऽर्थस्य व्यवस्थापकत्वात् यत्पुनः परमार्थतश्चिद्रूपं न भवति न तन्मुख्यतोऽर्थव्यवस्थापकं यथा प्रतिपन्नं तथा चेयं तस्मात्तथा । न चात्र प्रत्यक्षबाधा । एकमेव ह्यनुभवसिद्धं संविद्रूपं हर्ष
विषादाद्यनेकाकारं विषयव्यवस्थापकमनुभूयते । तस्यैवैते चैतन्यं बुद्धि१० रध्यवसायो ज्ञानं संवित्तिरिति पर्यायाः । अत एव चेदमपि प्राप्ता
वसरमनुमानम् । चैतन्यं ज्ञानमेव तद्वाचकैः प्रतिपाद्यमानत्वात् । प्रसिद्धो हि लोके चेतयते जानीते बुद्धयतेऽध्यवस्यति पश्यतीत्येकार्थे प्रयोगः । न च शब्दभेदमात्राद्वास्तवोऽर्थभेदोऽतिप्रसङ्गात् । सिद्धे चैवं
बुद्धेश्चिद्रूपत्वे स्वसंविदितत्वमपि मूर्धाभिषिक्तमस्थाः स्थितम् । तथा १५ हि बुद्धिः स्वसंविदिता चिद्रूपत्वात् यत्तु नैवं तन्नैवं यथा घट इति ।
संवेदने ये कथयन्ति जाड्यं स्वस्यैव जाडयं प्रथयन्ति तेऽत्र ।। तस्मात्स्वनिश्चायकमभ्युपेतुं युक्तं तदेतत्कापलस्य शिष्याः॥२४५॥ एतेन चार्वाकविटोऽपि तुल्ययुक्तित्वतः क्षिप्त इहावसेयः । निरस्य जीवं वसुधादिधर्ममचेतनज्ञानमुपैति योऽत्र ॥ २४६ ॥
तथाहि सोऽपि ज्ञानस्य ज्ञानान्तरवेद्यत्वं यदि ब्रूयात् तदस्यापि योगसाङ्ख्यपक्षसमुपन्यस्तसमस्तदोषप्रसक्तिः। अथैवमसावनुमानयेत् । ज्ञानं न स्वसंविदितं भूतपरिणामत्वात् पटादिवदिति तदा तत्र हेतोरसिद्धत्वमुद्ग्राहणीयम् । आत्मपरिणामत्वेन ज्ञानस्य प्रतिवादिनाऽभ्यु
पगमात् । आत्मसिद्धिश्च प्रबन्धेन सप्तमपरिच्छेदे करिप्यते इति । २५ एवं च ।
१ 'तत् ' इत्यधिक म. पुस्तके ।
"Aho Shrut Gyanam"