________________
२२२
प्रमाणनयतत्त्वालोकालङ्कारः परि. १ स. १८ हेतुभूतयोस्तयोर्यदि ज्ञान तथाविधेनापरस्वभावद्वयेन प्रकाशकं तदानवस्था । स्वपरप्रकाशहेतुभूतस्वभावद्वयाप्रकाशत्वे वा ज्ञानस्य प्रमाणत्वायोगः । स्वस्वभावाप्रकाशकस्य कुम्भादिवत् अप्रमाणत्वेन भवद्भिरभ्युपगमात् । एवं च ।
एकप्रमातृसमवेतधियाधिगम्यं
सिद्धं समस्तमपि वेदनमुक्तयुक्त्या । ये तु स्वसंविदितमेतदुदाहरन्ति
कामन्ति ते किमिति नांसतटीं स्वकीयाम् ॥ २३४ ॥ अहो गदित्वा परिफल्गु किञ्चित्प्रगल्भसे मुग्ध किमेवमत्र । १० इतः स्वसंवेदनसिद्धियुक्तीः शृणु स्वपक्षेऽपि च दोषपंक्तीः॥ २३५ ॥
तथाहि यत्तावज्ज्ञानं ज्ञानान्तरवेद्यमित्याद्यनुमानमगादि तत्र वेद्यत्वादिति हेतोस्त्रिलोचनज्ञानेन व्यभिचारः । तस्य वेद्यत्वेऽपि स्वसंविदितत्वेन भवद्भिरभ्युपगमात् । यत्पुनरत्रोक्तमस्मदादिज्ञानापेक्षयेत्यादि । तदवद्यमस्मदादीति विशेषणस्यात्राश्रूयमाणत्वात् । हृदयनिविष्टं तदस्तीति चेत् । कथं शपथमन्तरेणायमर्थः प्रतीयते । अस्तु वा, तथापि पक्षस्य हेतोर्वा तत्स्यात् । यदि पक्षस्य, तदा विरूपाक्षज्ञानमपक्षोऽस्तु हेतुस्तु तत्र प्रवर्त्तमानः केन प्रतिहन्यते । येन स व्यभिचारो न भवेत् । अथ हेतोस्तद्विशेषणमस्मदादिज्ञानत्वे सति वेदत्वादिति तर्हि साधनविकल्पो दृष्टान्तः । तथाभूतस्य हेतोर्घटदृष्टान्तेऽसम्भवात् । अपि च विरूपाक्षज्ञानं स्वज्ञानं स्वसंविदितत्वादस्मदादीति विशेषणेनात्रव्यवच्छिद्यते । स्वसंविदितत्वं च कुतस्तस्य सिद्धम् । अर्थग्रहणात्मकत्वान्चेत्तदस्मदादिज्ञानेऽप्यस्त्येवेत्युभयत्र स्वसंविदितत्वं सिध्येन्न वा क्वचिदपि विशेषादर्शनात् । अथ विरूपाक्षज्ञानम्यास्मदादिज्ञानाद्वि
शिष्टत्वात्तत्रैव स्वसंविदितत्वं न्याय्यं नान्यत्र नहि विशिष्टे दृष्टं धर्मम२५ विशिष्टेऽपि योजयन् प्रज्ञावत्तां लभत इति चेत् , तदप्यनवदातम् ।
एवं हि शम्भुज्ञाने विशिष्टे दृष्टस्यार्थग्रहणात्मकत्वस्याप्यस्मदादिज्ञाने प्रतिषेधप्रसङ्गः । अथ तस्याभावे तज्ज्ञानमेव न स्यात्तत्य तत्स्वभावत्वा
"Aho Shrut Gyanam"