________________
चतुर्थं पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते ॥२३॥
सर्गः
श्रेयांसजिनचरितम्।
128282828282828282828282828
महत्या प्रतिपत्त्या तमुपावेशयदासने । स्वामिनो वाचिकं सर्वमपृच्छच्च स भूपतिः ॥ २८८ ॥ सङ्गीतकस्य सञ्जज्ञे भङ्गोऽकाण्डे तदागमात् । आगमाध्ययनस्येव विद्युदालोकमात्रतः ॥ २८९ ॥ गृहं निजनिजं जग्मुः सर्वे सङ्गीतकारिणः । स्वामिनि व्यग्रचित्ते हि नावकाशः कलावताम् ॥२९०॥ तं रङ्गभङ्गकर्तारं दृष्ट्वा भृशममर्षण : । पार्श्वस्थं पुरुषं कञ्चित् त्रिपृष्ठः पृष्टवानिति ॥ २९१ ॥ अये ! कोऽसमयज्ञोऽयं पशुः पुरुषरूपभृत् । अज्ञापितस्वाऽऽगमनः प्राविशत् तातपर्षदि ? ॥ २९२ ॥ अभ्युत्तस्थौ कथं दृष्ट्वा तात एनं ससम्भ्रमः ? । निषिद्वश्च कथं नैष प्रविशन् वेत्रपाणिना? ॥२९३ ॥ अथेत्थं कथयामास त्रिपृष्ठाय स पूरुषः । दूतो राजाधिराजस्य हयग्रीवस्य नन्वयम् ॥ २९४ ॥ त्रिखण्डे भरते ह्यस्मिन् राजानस्तस्य किङ्कराः । ततस्तस्येव दूतस्याप्यभ्युत्तस्थौ पिता तव ॥ २९५ ॥ द्वाःस्थेनापि निषिद्धस्तन्नायमौचित्यवेदिना । ने श्वाऽप्यास्कन्द्यते यस्मात् स्वामिनः किं पुनः पुमान् ? ॥२९६ ॥ अस्मिन् प्रसादिते राजा हयग्रीवः प्रसीदति । तत्प्रसादेन राज्यानि राज्ञां नन्दन्ति सम्प्रति ॥२९७ ॥ खलीकृतेऽवज्ञयाऽस्मिन् हयग्रीवः खलीभवेत् । दूतदृष्ट्यनुसारेण प्रवर्तन्ते हि भूभुजः ॥ २९८ ॥ खलीभूते स्वामिनि हि कृतान्त इव दुःसहे । नेष्यते जीवितमपि नृपे राज्ये तु का कथा ? ॥ २९९ ॥ अभाषिष्ट त्रिपृष्ठोऽपि न जात्या कोऽपि कस्यचित् । स्वामी वा सेवको वाऽपि शक्त्यधीनमिदं खलु ॥३०॥
१ वाचिकम्-संदेशः । २ आगमः आगमनम्। ३ सति विद्युदालोके आगमस्वाध्यायनिषेधः शास्त्रे श्रूयते, स च 'असज्झाय' नाम्ना जैनपरम्परायां प्रसिद्धः। ४ वेत्रपाणि:- द्वारपालः । ५ यस्मात् स्वामिनः-स्वामिसम्बन्धी श्वा-सारमेय:-कुक्कुरः अपि न आस्कन्द्यते, पुमान् तु कथम् आस्कन्दनीयः ? । आस्कन्दनम्-रोधनम् । ६ अपमानिते।
28282828282828282828282828
त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्।
॥२३॥