________________
पृष्ठ क्र.
॥४७॥
सुभाषितम् । स्थानं नैकत्र साधूनां निःसङ्गानां समीरवत् । नाशो नार्जितकर्मणाम् । अपत्यस्नेहो बली खलु । महतामनुलग्नैर्हि महदासाद्यते फलम् । किं कम्पते क्वचिच्छैलो दन्तघातेन दन्तिनः । न वन्ध्यं दर्शनं सताम् । उपचारः स्याद्भाविन्यपि हि भूतवत् । कषाया नरकायैव यतोऽनन्तानुबन्धिनः । कृतज्ञा हि विवेकिनः। पक्षे सतां जनः । सूर्यमालोके कियत्तिष्ठन्ति कौशिकाः । समृगेन्द्रे गतिर्मार्ग मृगस्य कुशलाय न । आर्तध्यानस्य हि फलं तिर्यग्योनिषु संभवः । छद्मस्था हि जिना नान्यमुनिवत्क्वचिदासते । भूयो नृजन्मापि हि दुर्लभम् । दुःस्थितेषु हि महतां वात्सल्यमतिरिच्यते । क्षत्रियाणां न धर्मोऽयं शरणार्थी यदर्प्यते । पित्ताग्निः शर्कराशम्यः पयसा किं न शाम्यति ।
॥४७॥
१०१ १०३
१०३