________________
त्रिषष्टिशलाका
पुरुषचरिते 1193 11
46456
तया च भोगान् भुञ्जानः सुभुजो भूभुजां वरः । सुदर्शनो व्यतीयाय कालं कमपि नाकिंवत् ॥ २५ ॥ इतश्च ग्रैवेयकस्थ जीवो धनपतेः स तु । एकान्तसुखनिर्मग्नो निजमायुरपूरयत् ।। २६ ।। स च्युत्वा फाल्गुन शुक्लद्वितीयायां निशाकरे । रेवतीस्थे महादेव्या देव्याः कुक्षाववातरत् ॥ २७ ॥ चतुर्दश महास्वप्नांस्तीर्थकृज्जन्मसूचकान् । सुखसुप्ता निशाशेषे महादेवी ददर्श सा ॥ २८ ॥ तस्याः पीडामतन्वानस्तन्वानश्च तनुंश्रियम् । ज्ञानत्रितयसंयुक्तो गर्भो गूढमवर्धत ॥ २९ ॥ सा मार्गशुद्धदशम्यां रेवत्यां कनकद्युतिम् । संपूर्णलक्षणं नन्द्यावर्ताङ्कं सुषुवे सुतम् ॥ ३० ॥ षट्पञ्चाशद्दिक्कुमार्यः सूतिकर्माणि चक्रिरे । अभिषेकश्चतुःषष्ट्या मेरौ चक्रे च वासवैः ॥ ३१ ॥ विलिप्य पूजयित्वा च कृत्वा चारात्रिकादिकम् । स्वामिनं तमिति स्तोतुं सौधर्मेन्द्रः प्रचक्रमे ॥ ३२ ॥ नष्टष्टादशदोषायाष्टादशायार्हते प्रभो । अष्टादशविधब्रह्मभृतां ध्येयाय ते नमः ।। ३३ ।। ज्ञानत्रयं गर्भतोऽपि यथैवायतने तव । तथैवाखिलमप्येतत्तीर्थनाथ, जगत्त्रयम् ॥ ३४ ॥ मोहावस्वापिनीं दत्वा रागद्वेषादिदस्युभिः । चिरं जगदवस्कन्नं स्वामिस्त्रायस्व संप्रति ।। ३५ ।। पथि श्रान्तैरिव रथस्तृष्णाक्रान्तैरिवापगा । तप्तैरिव तरुच्छांया निमज्जद्भिरिवोडुपः ।। ३६ ।। रोगिभिरिव भैषज्यं ध्वान्तान्धैरिव दीपकः । हिमार्तैरिव मार्तण्डो मार्गमूढैरिर्वाग्रगः ।। ३७ ।।
१ शोमनपाणिः । २ देववत् । ३ शरीरशोभां विस्तारयन् । ४ नन्द्यावर्तस्याङ्कं लाञ्छनं यस्य तम् । ५ नष्टा अष्टादश दोषा यस्य तस्मै । ६ हृदयरूपे भवने । ७ ब्रुद्भिः समुद्र इति शेषः । उडुपः प्लवः । ८ अग्रगामी मार्गदर्शक इति यावत् ।
জ
षष्ठं पर्व द्वितीयः
सर्गः
श्रीअरनाथजिन
चरितम् ।
देवीकुक्षौ अवतारो
जन्म च ।
119 3 11