________________
[प्रथमः सर्गः ।
षष्ठं पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते
॥१॥
श्रीकुन्थुस्वामिचरितम् ।
सर्गः
श्रीकुन्थुस्वामि
चरितम् ।
पूर्वभवः ।
जयन्ति जयिनः कुन्थुस्वामिनो देशनागिरः । महामोहदृषद्भेदसरित्पूरसहोदराः ।। १ ॥ त्रैलोक्यस्वामिनः कुन्थोश्चरित्रं वच्मि पावनम् । संसाराम्भोधिमथने मंथनाचलसन्निभम् ॥ २ ॥ अस्यैव जम्बूद्वीपस्य प्राग्विदेहेषु सुन्दरे । आवर्तनाग्नि विजये कृतस्वर्विजये श्रिया ॥३॥ महापुर्यां खड्गिनाम्न्यां निःसीमगुणभाजनम् । सीमा धर्मधुरीणानां राजा सिंहावहोऽभवत् ।। ४ ।। आधार इव धर्मस्य कुठार इव पाप्मनः । न्यायस्य कुलवेश्मेव सुधियां जन्मभूरिव ।। ५ ।। तस्य मन्त्रो मन इव दुर्लक्षो विदुषामपि । शक्रस्येव प्रभुत्वं चोत्साहश्चाभूद्धरेरिव ।। ६ ॥ अनुल्लचितमर्यादः समुद्र इव स स्वयम् । मर्यादायां जगदपि धारयामास शक्तिमान् ॥ ७ ॥ १ जयशीलस्य । २ महामोह एव पाषाणस्तस्य भेदे नदीपूरसमानाः । ३ मन्दराचलसदृशम् । ४ कृतः स्वर्गस्य जयो येन तस्मिन् ।