________________
त्रिषष्टि
शलाकापुरुषचरिते
119 11
श्री शान्तिनाथचरितम् ।
प्रथमः सर्गः ।
ॐ नमः श्रीशान्तिनाथाय कृतविश्वाघशान्तये । षोडशाय जिनेन्द्राय पञ्चमाय च चक्रिणे ॥ १ ॥ मोहान्धकारसंदोहकर्त्तनैकविकर्तनम् । कीर्तयिष्यामि तस्याहं चरित्रमतिपावनम् ॥ २ ॥ अस्यैव जम्बूद्वीपस्य मण्डलाकारधारिणः । इन्दोरिव सप्तमोंऽशः क्षेत्रं भरतमस्त्यदः ।। ३ ।। अर्धे च दक्षिणे तस्य मध्यखण्डविभूषणम् । अस्ति रत्नपुरं नाम पुरं सुरपुरोपमम् ॥ ४ ॥ तत्र श्रीषेण इत्यासीद्राजा राजीवलोचनः । राजीवमिव वासाय श्रियो देव्या विकस्वरम् ॥ ५ ॥ ज्येष्ठं बन्धुमिवाजत्रं स धर्मं बह्रपूजयत् । अर्थकामौ कनीयांसाविवाबाधमपालयत् ।। ६ ।। प्रार्थनामर्थिलोकस्य पूरयामास सोऽनिशम् । स्मरातुरपरस्त्रीणां न पुनर्धर्मकर्मठः ॥ ७ ॥ तथा रूपमभूदस्य सर्वौपम्यविलक्षणम् । आलेख्यस्याप्यविषयों यथा ह्यालेख्यकारिणाम् ॥ ८ ॥ दण्डप्रधानं साम्राज्यमपि स प्रतिपालयन् । दयामाराधयामास देवतामिव कामदाम् ॥ ९ ॥ विशुद्धशीला तद्भार्या नाम्नाभूदभिनन्दिता । हृदयानन्दिनी वाचा नेत्रकैरवचन्द्रिका ॥ १० ॥ मनसापि न सा शीलं खण्डयामास जातुचित् । मण्डयामास तेन स्वं फल्गु बाह्यं हि मण्डनम् ।। ११ ।। १ विकर्तनः सूर्यः २ राजीवं कमलम् । ३ धर्मकुशलः । ४ चित्रस्य । ५ शीलेन । ६ तुच्छम् ।
पञ्चमं पर्व
प्रथमः
सर्गः
श्री शान्तिनाथजिन|चरितम् ।
शान्तिजिनस्य
पूर्वभवेषु
प्रथमः
श्रीषेणभवः ।
119 11