________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ १९६ ॥
YAYAYAYDEDEDEREREREREDERERY
कदाचिच्चारुसंगीतैः कदाचिद् वरनाटकैः । कदाप्याख्यानकवरैः कदाप्यालेख्यवीक्षणैः ॥ २९२ ॥ कदाचिद् दिव्यवापीषु जलक्रीडामहोत्सवैः । कदाप्युद्यानवीथीषु पुष्पोच्चयनकेलिभिः ॥ २९३ ॥ कदाचिदन्याभिरपि क्रीडन् क्रीडाभिरेष ते । विद्याधरैः परिवृतोऽनैषीत् कालं सुखं सखा ॥ २९४ ॥
॥त्रिभिर्विशेषकम्॥
क्रीडानिमित्तमधुना त्विहागात् तव बान्धवः । मिलितस्त्वं च दलितो दुर्दैवस्य मनोरथः ॥ २९५ ॥ इत्युक्तवत्यां बकुलमत्यां रतिनिकेतनात् । सनत्कुमारो निरगाद्धदादिव मतङ्गजः ॥ २९६ ॥ समं महेन्द्रसिंहेन विद्याधरसमावृतः । वैताढ्याद्रिं ततः सोऽगात् सुमेरुमिव वासवः ॥ २९७ ॥ स कालं गमयन्नृद्धया महत्या परिबृंहितः । महेन्द्रसिंहेनान्येद्युर्व्यज्ञपीदं यथोचितम् ॥ २९८ ॥ तव ऋद्ध्याऽनया स्वामिन् ! मनो मे मोदतेतमाम् । पितरौ त्वद्वियोगार्तौ स्मारं स्मारं च सीदतः ॥ २९९ ॥ असौ सनत्कुमारोऽसौ महेन्द्र इति तन्मयम् । पितरौ पश्यतो विश्वं मन्ये तनयवत्सलौ ॥ ३०० ॥ तत् प्रसीदाभिगच्छामो नगरं हस्तिनापुरम् । आनन्दय पितृजनं शशाङ्क इव सागरम् ॥ ३०१ ॥ तेनेत्यभिहितः सख्या सोत्कण्ठः सोऽपि तत्क्षणात् । विद्याधराधिपशतैश्चमूयुक्तैः समावृतः ॥ ३०२ ॥ विमानैर्भासुरैः कुर्वन् नानाऽऽदित्यमिवाम्बरम् । विद्याधरैः कैश्चिदपि विधृतातपवारणः ॥ ३०३ ॥ उद्धूतचामरः कैश्चित् कैश्चिदप्यूढपादुकः । कैश्चित् गृहीतव्यजन आत्तवेत्रश्च कैश्चन ॥ ३०४ ॥
TAUREREREREREREDERERERERERY:
चतुर्थं पर्व
सप्तमः सर्गः
श्रीसनत्कु
मारचक्रि
चरितम् ।
हस्तिनापुरे प्रत्यागमनम् ।
॥ १९६ ॥