________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ १९४ ॥
FREDERERE DE RI
CREDERE RE:
पुत्रोऽपि सह्य समारुह्य च तं रथम् । रणायोत्कण्ठितस्तस्थौ क्षत्रिया हि रणप्रियाः ॥ २६६ ॥ चन्द्रवेग-भानुवेगादयो विद्याधरा अमुम् । स्वसैन्यैर्वव्रिरे वैरिंयशोविधुविधुन्तुदाः ॥ २६७ ॥ गृह्णीत गृह्णीत हत हतेति च विभाषिणः । आगमन्नतिवेगेनाशनिवेगस्य सैनिकाः ॥ २६८ ॥ उभयोरप्ययुद्ध्यन्त सैन्या दैन्यविनाकृताः । ताम्रचूडा इवोत्पत्योत्पत्यामर्षात् प्रहारिणः ॥ २६९ ॥ तेषां क्ष्वेडारवादन्यन्न किञ्चिच्छुश्रुवे तदा । तदायुधेभ्यो दीप्तेभ्यो नान्यत् किञ्चित् त्वदृश्यत ॥ २७० ॥ अपासर्पन्नुपासर्पन् प्रहारानसकृद् ददुः । प्रतीषुश्च रणविदः सुभटाः कुञ्जरा इव ॥ २७१ ॥ युद्धवाचिरेण भग्नेषु सैनिकेषु द्वयोरपि । समुत्तस्थे ऽशनिवेगो रथेनानिलवेगिना ॥ २७२ ॥ भो भोः ! वज्रवेगारिर्यमागारनवातिथिः । इत्याक्षिपन् परानुच्चैः साधिज्यं विदधे धनुः ॥ २७३ ॥ एषोऽहं वज्रवेगारिर्यमागारनवातिथिः । इति ब्रुवन्नार्यपुत्रो ऽप्यार्ततज्यं धनुर्व्यधात् ॥ २७४ ॥ ततः प्रववृते युद्धं द्वयोरपि महौजसोः । शराशरि तिरोभूतदिवाकरकरोत्करम् ॥ २७५ ॥ द्वावप्यार्यपुत्रविद्याधरेशौ मारतत्परौ । युद्ध्वा गदाद्यैरप्यस्त्रैरसंजातपराजयौ ॥ २७६ ॥ सार्पगारुत्मताग्नेयवारुणास्त्रैस्तु दारुणैः । दिव्यैरस्त्रैरयुध्येतामन्योऽन्यं बाध्यबाधकैः ॥ २७७ ॥ युग्मम् ॥ विद्याधरपतेश्चापमास्फाल्योन्मुञ्चतः शरम् । आर्यपुत्रः सायकेन जीवां जीवमिवाच्छिदत् ॥ २७८ ॥
१ वैरिणां यश एव चन्द्रस्तस्मिन् राहुसदृशाः । २ दीनतारहिताः । ३ कुर्कुटाः । ४ गर्जना शब्दात् । ५ प्रतिजग्मुः । ६ आतता विस्तीर्णां ज्या यस्मिन् । ७ तिरोभूतः सूर्यकिरणसमूहो यस्मिन् तत् । ८ धनुर्गुणम् ।
GRERERE REREREREREAGREREDERE
चतुर्थं पर्व
सप्तमः सर्गः
श्रीसनत्कुमारचक्रि
चरितम् ।
सनत्कुमारवृत्तान्तनिवेदनम् ।
॥ १९४ ॥