________________
त्रिषष्टिशलाकापुरुषचरिते ॥१७५ ॥
चतुर्थं पर्व सप्तमः
सर्गः श्रीसनत्कुमारचक्रिचरितम्।
888888888882828282828282828
नादत्त चानले क्षेप्तुं विष्णुश्रियं मृतामपि । प्रिया ममैषा प्रणयतूष्णीकेत्यनिशं वदन् ॥ २४ ॥ मन्त्रिणो मन्त्रयित्वाऽथ वञ्चयित्वा च भूपतिम् । अरण्ये चिक्षिपुर्नीत्वा तद्विष्णुश्रीकलेवरम् ॥ २५ ॥ त्वमासीरधुनैवेह किं प्रिये ! न निरीक्ष्यसे । तिरोधानक्रीडयाऽलं वियोगस्य वयस्यया ॥२६॥ नर्मणाऽपि वियोगाग्निमर्माविद् युज्यते न हि । मदा तव किं नातिरावां ह्येकात्मकौ सदा ॥२७॥ एकाकिनी किमगच्छः क्रीडासरिति कौतुकात् । क्रीडाद्रिमथवारोहः क्रीडोद्यानमथाभ्यगाः ॥२८॥ मां विना क्रीडसि कथमायाम्येष इति ब्रुवन् । तेषु तेषु प्रदेशेषु बभ्रामोन्मत्तवन्नृपः ॥ २९ ॥ राज्ञश्च त्यक्तपानान्नवृत्तेर्गतवति त्र्यहे । मरणाशङ्किनोऽमात्यास्तस्या वपुरदर्शयन् ॥ ३० ॥ अच्छभल्लवदत्यन्तविसंस्थुलशिरोरुहम् । शशवच्छशरे वन्या कर्केराकृष्टलोचनम् ॥ ३१ ॥ चर्वितोरसिजद्वन्द्वं गृधैः पिशितगृध्नुभिः । समाकृष्टान्त्रभारं च शिवाभिरशिवाकृति ॥ ३२ ॥ छादितं मक्षिकावृन्दैर्मधुमण्डकजालवत् । पिपीलिकाभिश्चाश्लिष्ट पातभग्नाण्डजाण्डवत् ॥३३॥ पूतिगन्धि तदालोक्य सद्यो विष्णुश्रियो वपुः । विरक्तो विक्रमयशाश्चिन्तयामासिवानिति ॥ ३४ ॥
॥चतुर्भिः कलापकम् ॥ अहो ! असारे संसारे सारं वस्तु न किञ्चन । सारबुद्ध्या धिगेतस्यां मोहिताः स्मः कियच्चिरम् ! ॥ ३५ ॥
828282828282828282828282828
पूर्वभवः ।
॥१७५ ॥
१वियोगस्य मित्ररूपया तिरोधानक्रीडयाऽलमित्यन्वयार्थः । २ अतिविस्तीर्णानि शिरोरुहाणि केशा यस्मिंस्तद् वपुः। ३ चर्वितस्तनयुग्मम् । ४ मांसलोलुपैः । ५ अशुभाकारम् । ६ यथा पतनेन भग्नं स्फुटितमण्डजस्याण्डं पिपीलिकाभिराश्लिष्यते तथा।