________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १७० ॥
REDERERE DERY
DE DE DE DE REI
यथास्थानमथान्यानि पुरोधः प्रभृतीन्यपि । तस्य रत्नानि सर्वाणि जज्ञिरे क्रमयोगतः ॥ २४ ॥ चक्रमार्गानुगः सोऽथ प्रस्थितो दिग्जिगीषया । ययौ मागधतीर्थेशं प्राक्समुद्रविभूषणम् ॥ २५ ॥ तस्य नामाङ्कबाणेन दूतेनेव संमेयुषा । एत्य मागधतीर्थेश : सेवामेव समाश्रयत् ॥ २६ ॥ सोऽपाच्यां वरदामानं पश्चिमायां पुनर्दिशि । प्रभासाधिपतिं देवं विजिग्ये मागधेशवत् ॥ २७ ॥ गत्वा च दक्षिणं रोधः सिन्धुदेवीमसाधयत् । ततो गच्छन्नाससाद चक्री वैताढ्यपर्वतम् ॥ २८ ॥ चक्रवर्त्यात्मसाच्चक्रे वैताढ्याद्रिकुमारकम् । तदुपायनमादायानुतमिस्रं जगाम च ॥ २९ ॥ स तमिस्रागुहाद्वारे द्वारपालमिव स्थितम् । विधिवत् साधयामास कृतमालाभिधं सुरम् ॥ ३० ॥ तस्यादेशाच्चमूनाथ: सिन्धुमुत्तीर्य घर्मणा । प्रत्यग्निष्कुटमाक्रामत् तस्याः पुनरुपाययौ ॥ ३१ ॥ सेनान्या दण्डरत्नेन कपाटोद्घाटने कृते । ससैन्यः प्राविशच्चक्री गजरत्नेन तां गुहाम् ॥ ३२ ॥ अन्तर्विरचितालोकः काकिणीकृतमण्डलैः । कुम्भिदक्षिणकुम्भस्थमणिभाप्रसरेण च ॥ ३३ ॥ उत्तीर्य वर्धकिकृतपद्यया चान्तरस्थिते । नद्यामुन्मग्ननिमग्नजले अत्यन्तदुस्तरे ॥ ३४ ॥ स्वयं विश्लिष्टकपाटेनोत्तरद्वारवर्त्मना । तस्या गुहाया निरगात् सह चम्वा स चक्रभृत् ॥ ३५ ॥ आपातनामकाँस्तत्र किरातानतिदुर्जयान् । मघवेवासुरभटान् विधिवन्मघवाऽजयत् ॥ ३६ ॥ सिन्धोश्च निष्कुटं प्रत्यगजयत् तच्चमूपतिः । स्वयं त्वसाधयद् गत्वा हिमाचलकुमारकम् ॥ ३७ ॥ १ आगतेन । २ तत्प्राभृतम् । ३ चर्मरत्नेन । ४ हस्तिनो दक्षिणकुम्भस्थले स्थितस्य मणेः कान्तिप्रसरेण । ५ वर्धकि- रत्नेन कृता या पद्या सेतुबन्धस्तया ।
REDERERERERERERERERERERERY
चतुर्थं पर्व
षष्ठः सर्गः
श्रीमघवचक्रवर्तिचरितम् ।
दिग्विजयः ।
॥ १७० ॥