________________
चतुर्थं पर्व
त्रिषष्टि
शलाकापुरुषचरिते
सर्गः श्रीमघवचक्रवर्तिचरितम् ।
॥ १६८॥
1282828282828282828282828282
षष्ठः सर्गः।।
(श्रीमघवचक्रवर्तिचरितम्। भरतेऽत्रैव नगरे महीमण्डलनामनि । वासुपूज्यस्य तीर्थेऽभून्नाम्नाऽमरपतिर्नृपः ॥१॥ अनाथानामेकनाथः पृथिवीनाथपुङ्गवः । सुसाधुरिव चारित्रे स न्यायेऽवहितोऽभवत् ॥२॥ अप्यसौ पुष्पवृन्तेन नाजघान जनं क्वचित् । केवलं पालयामास यत्नेन नवपुष्पवत् ॥३॥ कामार्थौ पादकण्टकवद् धर्मं तु किरीटवत् । अधरोत्तरभावेन स दधार विवेकवान् ॥ ४॥ अर्हन् देवो गुरुः साधुर्धर्मश्च करुणेति सः । मन्त्राक्षरमिवाध्यायदनुत्तरसुखप्रदम् ॥५॥ राज्यं रुजमिवान्येधुरुत्सृज्य स महायशाः । परिव्रज्यामुपादत्त दत्तविश्वाभयः सुधीः ॥६॥ स समितिप्राप्तजयो गुप्तिरक्षणतत्परः । विधिवत् पालयामास प्रव्रज्यां राज्यवच्चिरम् ॥७॥ अनवद्यैर्मूलगुणैः स उत्तरगुणैरपि । अधिकं शुशुभे दिव्यरत्नालङ्करणैरिव ॥८॥ चिरं व्रतं पालयित्वा कालधर्ममुपेत्य सः । ग्रैवेयके मध्यमेऽभूदहमिन्द्रः सुरोत्तमः ॥९॥ इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे भरतनामनि । श्रावस्तीत्यस्ति नगरी नगरीणां गरीयसी ॥१०॥ गुणरत्नैरसंख्यातैः समुद्र इव मूर्तिमान् । समुद्रविजयस्तत्र विजयी समभून्नृपः ॥११॥
१ पुङ्गवः- श्रेष्ठः । २ अप्रमत्तः । ३ कामाथी पादकण्टक्वद् हेयौ, धर्मं तु किरीटवन्मुकुटवदुपादेयमित्यर्थः । ४ कामार्थावधरभावेन धर्म चोत्तरभावेनेत्यर्थः । ५ व्याधिवत् ।
8282828282828282828282828285
पूर्वभवः।
॥१६८॥