________________
1199 11
॥ सूरिभुवनभान्वष्टकम् ॥
रचयिता: पन्यास श्रीकल्याणबोधिविजयगणी । (वसंततिलका)
सज्ज्ञानदीप्तिजननैक सहस्रभानो ! सद्दर्शनोच्छ्रयविधौ परमाद्रिसानो ! दुष्कर्मभस्मकरणैकमनः कृशानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥१ ॥ यो वर्द्धमानतपसामतिवर्द्धमानभावेन भावरिपुभिः प्रतियुध्यमानः । क्रुच्छद्मलोभरहितो गलिताभिमानो
भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥२॥ तेजः परं परमतेज इतो समस्ति कुदृष्टिभितदमिचंदनि चामिदृष्टिः । भूताऽपि शैलमनसां नयनेऽश्रुवृष्टिः भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥३॥ तुभ्यं नमो भविकपङ्कजबोधभानो ! तुभ्यं नमो दुरितपङ्कविशोषभानो ! तुभ्यं नमो निबिडमोहतमोघ्नभानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥४॥
गुणैर्महानसि गुरो ! गुरुताप्रकर्ष ! पापेष्वपि प्रकृतदृष्टिपियूषवर्ष ! वृत्त्यैकपूतपरिशुद्धवचोविमर्श ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ ५ ॥ कल्लोलकृद्वर-कृपा भवतो विभाति विस्फुर्जते लसदनर्घ्यगुणाकरोऽन्तः । गम्भीरताऽतिजलधे ! नयनिम्नगाधे
भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ ६ ॥ सीमानमत्र न गता न हि सा कलाऽस्ति प्रक्रान्तदिक्सुगुणसौरभ भाग्गुरोऽसि दृष्टयश्च दोषनिकरा दशमीदशायां भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥७॥ त्वद्पादपद्मभ्रमरेण देव !
श्री हेमचन्द्रोक्तिकृता सदैव ।
भानो ! नुतोऽसि ननु भक्तिभावात् त्वत्संस्मृतिसाश्रुससम्भ्रमेण ॥८ ॥ (इन्द्रवज्रा )
ত
1199 11