________________
चतुर्थं पर्व
तृतीयः
त्रिषष्टिशलाकापुरुषचरिते ॥१०३॥
सर्गः श्रीविमलनाथजिनचरितम्।
12888888888888888888888888
विदधे विबुधैस्तत्र वसुधारादिपञ्चकम् । रत्नपीठं स्वामिपादस्थाने जयनृपेण तु ॥६७॥ ततः स्थानादथान्यत्र ग्रामाकरपुरादिषु । प्रावर्तत विहाराय छद्मस्थः परमेश्वरः ॥६८॥ इतश्च जम्बूद्वीपेऽस्मिन् विदेहेष्वपरेषु च । नन्दिसुमित्र आनन्दकर्यां पुर्यामभून्नृपः ॥ ६९ ॥ चक्षुष्मानपि चक्षुष्मान् विवेकेन बभूव सः । ससहायश्च खङ्गेन महासैनिकवानपि ॥७०॥ जन्मतोऽपि भवोद्विग्नो जानानः सर्वमस्थिरम् । दधार पैतृकं राज्यमपि पालयितुं क्रमम् ॥७१॥ मनसा प्रागपि त्यक्तं त्यक्त्वा राज्यमथान्यदा । प्रव्रज्यां सुव्रताचार्यपादान्ते स उपाददे ॥७२॥ विविधाभिग्रहधरश्चरित्वा दुश्चरं तपः । कृत्वा चानशनं मृत्वाऽनुत्तरे समभूत् सुरः ॥७३॥ अत्रैव जम्बूद्वीपे च पुर्यां भरतभूषणे । श्रावस्त्यां धनमित्राख्यो बभूव पृथिवीपतिः ॥७४ ॥ धनमित्रनरेन्द्रस्य स्नेहादतिथितां गतः । पूर्यां तव चावात्सीद् बलिर्नाम महीपतिः ॥७५ ॥ धनमित्रोऽन्यदा रेमेऽक्षयूतं बलिना समम् । अक्षीणबुद्धिविभवो गमैन च चरेण च ॥ ७६ ॥ पत्तीनामिव सारीणां वध-बन्धपरौ मिथः । विपञ्चयामासतुस्तौ द्यूतं रणमिवोत्कटम् ॥७७॥ सर्वात्मना जेतुकामौ तावन्योऽन्यं नरेश्वरौ । स्वं पणीचक्रतू राज्यं द्यूतान्धानां कुतो मतिः ? ॥७८ ॥ अथ हारितवान् राज्यं धनमित्रनृपो निजम् । रोरपुत्र इवाश्रीक एकाङ्गश्चाभवत् क्षणात् ॥७९॥ अवस्तुभूय स भ्राम्यन् कश्मलो जीर्णकर्पटः । भूताविष्ट इव प्राप सर्वत्राप्यवमाननाम् ॥८०॥ १-२ गम-चरौ द्यूतक्रीडा कलाभेदौ। ३ द्यूतक्रीडोपयुक्तं वस्तु सारीति कथ्यते। ४ मलिनः। ५ कर्पट:- 'कपडु' इति भाषायाम् ।
828282828282828282828282828
स्वयम्भूवासुदेव-भद्र
बलदेव
मेरक
प्रतिवासुदेवचरितम्।
॥१०३॥