________________
चतुर्थं पर्व द्वितीयः सर्गः
त्रिषष्टिशलाकापुरुषचरिते ॥९१॥
श्रीवासु
पूज्यचरितम्।
282828282828282828282828286.
माघशुक्लद्वितीयायां चन्द्रे शतभिषग्जुषि । केवलज्ञानमुत्पेदे चतुर्थेन जिनेशितुः ॥ २८४ ॥ स्वामी दिव्ये च समवसरणे देशनां व्यधात् । सूक्ष्मादीनां गणभृतां षष्टिं षडधिकां तथा ॥ २८५ ॥ तत्तीर्थभूः कुमाराख्यो यक्षो हंसरथः सितः । मातुलिङ्ग-शरधरौ धारयन् दक्षिणौ करौ ॥ २८६ ॥ वामौ च नकुलधनुर्धारिणौ धारयन् भुजौ । वासुपूज्यजिनेन्द्रस्याभवच्छासनदेवता ॥ २८७ ॥ तथोत्पन्ना श्यामवर्णा चन्द्रा नामाश्ववाहना । दक्षिणौ वरद-शक्तिधारिणौ दधती भुजौ ॥ २८८ ॥ पाणी पुष्प-गदायुक्तौ बिभ्रती दक्षिणेतरौ । भर्तुः शासनदेव्यासीत् सदा सन्निधिवर्तिनी ॥ २८९ ॥ ताभ्यामधिष्ठिताभ्यो भगवान् विहरन् भुवम् । द्वारकायाः परिसरभुवमन्येधुराययौ ॥२९० ॥ शक्राद्यैस्तत्र समवसरणं निर्ममेऽमरैः । चत्वारिंशद् धनुरष्टशतोच्चाऽशोकपादपम् ॥२९१ ॥ तत्र प्रदक्षिणीकृत्याशोकं तीर्थानतिं वदन् । सिंहासने निषसाद प्राङ्मुखः परमेश्वरः । २९२ ॥ प्रभोश्च प्रतिरूपाणि देवा दिक्ष्वपरास्वपि । विचक्रुस्त्रीणि तादृक्षाण्येवोच्चैस्तत्प्रभावतः ॥२९३ ॥ न्यषीदच्च यथास्थानं श्रीमान् संघश्चतुर्विधः । मध्यवप्रे तु तिर्यञ्चोऽधोवप्रे वाहनानि तु ॥ २९४ ॥ तदा च राजपुरुषा द्रुतमभ्येत्य शाङ्गिणे । स्वामिनं समवसृतमाचख्युः फुल्लचक्षुषः ॥ २९५ ॥ सार्धा द्वादश रूप्यस्य कोटीस्तेभ्यो ददौ हरिः । ययौ समवसरणं विजयेनान्वितस्ततः ॥ २९६ ॥ तत्र प्रदक्षिणीकृत्य प्रणम्य च जगद्गुरुम् । आसाञ्चक्रेऽनुशक्रं स समं लाङ्गलपाणिना ॥ २९७ ॥ १ शतभिषग्नक्षत्रयुते। २ उपवासेन। ३ अभ्यर्णम्-समीपम्। ४ 'नमो तित्थस्स' इत्येवंरूपेण तीर्थप्रणामम्। ५ हलधरेण ।
88888888888888888888888888
केवलज्ञानम्।
श्रीवासुपूज्यजिनस्य समवसरणम्।