________________
त्रिषष्टिशलाकापुरुषचरिते ॥८९॥
चतुर्थं पर्व द्वितीयः
सर्गः श्रीवासुपूज्यचरितम् ।
282828282828282828282828282
अधिज्यधन्वा तदनु तारकोऽपीषुधेरिषुम् । आकृष्य संदधे मृत्योरुर्जितामिव तर्जनीम् ॥ २५६ ॥ मुमोच तारकोऽपीर्षु हरिश्चिच्छेद चेषुणा । मोक्ष-च्छेदावितीषूणामभूतामसकृत् तयोः ॥ २५७ ॥ गदा-मुद्गर-दण्डादीन्यायुधान्यपराण्यपि । तारको यानि चिक्षेप प्रत्यस्त्रैस्तान्यहन् हरिः॥२५८ ॥ तारकोऽथाग्रहीच्चकं क्रूरनक्रं रणोदधेः। द्विपृष्ठं चेत्यभाषिष्ट कोप-स्मितचलाधरः ॥२५९॥ दुविनीतो यद्यपि त्वं त्वां न हन्मि तथाऽपि हि । चिरसेवकपुत्रोऽसि बालोऽसीत्यनुकम्पया ॥२६० ॥ विजयावरजोऽप्यूचे स्मितस्तबकिताधरः । अनुकम्पां शार्ङ्गपाणौ मयि कुर्वन् न लज्जसे ? ॥ २६१ ॥ यद्यपि त्वं विपक्षोऽसि तथाऽप्यसि तितिक्षितः । जरसाऽऽसन्नमृत्योस्ते कः कर्ता मृतमारणम् ? ॥२६२ ॥ अस्य चक्रस्य यद्याशा तदेतदपि मुञ्च भोः ! । अकृतार्थीकृतेऽत्रापि गच्छेमुक्तस्तथाऽप्यसि ॥ २६३ ॥ इति द्विपृष्ठवचसा तिलाग्निरिव वारिणा । प्रदीप्तस्तारकश्चक्रं भ्रमयामास मूर्धनि ॥२६४॥ नभसि भ्रमयित्वा तद् द्विपृष्ठाय मुमोच सः । जाज्वल्यमानं कल्पान्तविद्युत्वानिव विद्युतम् ॥२६५ ॥ तत् तु तुम्बाग्रघातेन पपात हृदये हरेः । रूपान्तरपरावृत्तकौस्तुभश्रीविडम्बकम् ॥२६६ ॥ क्षणं तेन प्रहारेण मूछितः पतितो रथे । वीज्यते स्म विजयेनाञ्चलव्यजनपाणिना ॥ २६७ ॥ लब्धसंज्ञः क्षणाच्छाकी रिपोश्चक्रं समीपगम् । जातभेदमिवामात्यं तदादायाब्रवीदिदम् ॥२६८ ॥ चक्रं तवास्त्रसर्वस्वं दृष्टा तच्छक्तिरीदृशी । जीवग्राहं याहि जीवन नरो भद्राणि पश्यति ॥२६९ ॥ १ 'इषुधेः इषुम्' इति विभागः । २ प्रति-अस्त्रैः । ३ अहन् जघान । ४ अवरजः कनीयान् ।५ प्रलयमेघ इव । ६ जात: भेदः द्विधाभाव: छेदो वा यत्र।
028282828282828282828282828
द्विपृष्ठविजयतारकचरितम्।
॥८९॥