________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ ८७ ॥
CREDEREREREDEREREDEREREDERY!
न चेत् प्रदास्यते तद् वः स वध्योऽनेन मन्तुना । नापवादो भवेल्लोके सापराधं निगृह्णताम् ॥ २२९ ॥ याचितं दास्यते वाऽथ तदान्वेष्यं छलान्तरम् । सर्वोऽपि सापराधो हि छलमन्विष्यते यदा ॥ २३० ॥ साधु साध्वित्यमात्यं तमभिधाय तदैव हि । ब्रह्मणे प्राहिणोद् दूतं रहः संदिश्य तारकः ॥ २३१ ॥ आशु गत्वा द्वारवत्यां ब्रह्माणं सदसि स्थितम् । विजयेन द्विपृष्ठेन चान्वितं स उपास्थित ॥ २३२ ॥ प्रतिपत्त्या महत्या तमुपवेश्य स भूपतिः । चिरं सप्रेम चालप्य पप्रच्छाऽऽगमकारणम् ॥ २३३ ॥ सोऽप्यूचे द्वारकानाथ ! त्वां संप्रत्यादिशत्यदः । स्वामी नस्तारको वैरिबाहुदर्पापहारकः ॥ २३४ ॥ राज्ये त्वदीये ये केऽपि प्रवराः करिणो हयाः । यानि चान्यानि रत्नानि प्रेष्यन्तां तानि नः कृते ॥ २३५ ॥ दक्षिणे भरतार्थे हि वस्तु यत् किञ्चिदुत्तमम् । भरतार्धाधीश्वरस्य तन्ममैवापरस्य न ॥ २३६ ॥ इत्युक्त्या कुपितः सद्यो मृगेन्द्र इव हक्कया । अभाषिष्ट द्विपृष्ठस्तं जिघत्सुरिव चक्षुषा ॥ २३७ ॥
ज्यायान् वंश्यो न सोऽस्माकं त्राता दाता न चापि सः । राज्यं निजं शासतां नः कथं स्वामी बभूव सः १ ॥ २३८॥ | अथो मृगयतेऽस्मत्तो हस्त्यश्वादि भुजौजसा । भुजौजसा वयं तर्हि ततोऽपि मृगयामहै ॥ २३९ ॥ गच्छ दूताधुनैवास्मान् विद्धि तत्र समागतान् । हस्त्यश्वादि ग्रहीतुं त्वत्स्वामिनः शिरसा समम् ॥ २४० ॥ इत्युत्कटकटं वाचं द्विपृष्टस्य निशम्य सः । रुषितस्त्वरितं गत्वा तारकाय न्यवेदयत् ॥ २४१ ॥ | इभगन्धेन गन्धेभ इव विष्णुगिरा तया । श्रुतया तारकः क्रुद्धो यात्राभम्भामवादयत् ॥ २४२ ॥
१ मन्तुः - अपराधः । २ एकान्ते । ३ जिघत्सुः खादितुमिच्छुः । ४ अस्मत्पार्श्वात् । ५ ततः तव स्वामितः । ६ याचामहे । ७ गन्धप्रधानेन हस्तिना । ८ यात्राभम्भा - युद्धभेरिः ।
KAYAKAKAEDEREREREREREREDERY
४ चतुर्थं पर्व द्वितीयः सर्गः
श्रीवासुपूज्य - चरितम् ।
द्विपृष्ठविजयतारक
चरितम् ।
॥ ८७ ॥