________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः सर्गः अजितसगरचरितम् ।
॥४६॥
282828282828282828282828282
नमस्ते कुक्षिणा रत्नधारिके! विश्वपावनि! । जगन्मातः! सदालोकजगद्दीपप्रदायिनि! ॥३३४ ॥ मातस्त्वमेका धन्याऽसि, द्वितीयस्तीर्थकृद् यया । विश्वोपकारी सुषुवे, पृथिव्या कल्पवृक्षवत् ॥ ३३५ ॥ अहं हि सौधर्मपतिः, स्वामिजन्ममहोत्सवम् । कर्तुमत्राऽऽगमं मातर्न भेतव्यमतस्त्वया ॥३३६ ॥ इत्युदीर्य सहस्राक्षस्तदाऽवस्वापनी ददौ । विकृत्य तीर्थकृद्रूपं, देव्याः पार्वे न्यधत्त च ॥ ३३७ ॥ ततः शक्रः क्षणाच्छक्रान्, विचक्रे चाऽऽत्मपञ्चमान्। एकधाऽनेकधा च स्युः, कामरूपा दिवौकसः ॥३३८॥ एकः सुरपतिस्तेषु, प्रोद्भिन्नपुलकाङ्करः । मनसेव शुचिर्भूत्वा, शरीरेणाऽपि भक्तितः ॥३३९ ॥ नमस्कृत्याऽनुजानीहीत्यभिधाय जिनेश्वरम्।गोशीर्षरसलिप्ताभ्यां, कराब्जाभ्यामुपाददे ॥३४०॥॥युग्मम्॥ द्वितीयः पृष्ठतः स्थित्वाऽऽतपत्रं स्वामिमूर्धनि । अधारयद् गिरिशिरः स्थितराकेन्दुविभ्रमम् ॥३४१॥ बिभराञ्चक्रतुरुभौ, पार्श्वतश्चामरे हरी । स्वामिदर्शनतः साक्षादात्तौ पुण्यचयाविव ॥३४२ ॥ एक उल्लालयन् वज्रं, प्रतीहार इवाऽग्रतः । ससर्प स्वामिनं पश्यन्, किञ्चिद् वलितकन्धरः ॥ ३४३ ॥ सामानिकाः पारिषद्यास्त्रायस्त्रिंशास्तथाऽपरे । परिवर्दिविषद , प्रभुं पद्ममिवाऽलयः ॥३४४ ॥ भुवनस्वामिनं यत्नात्, पाणिभ्यां धारयन् हरिः । मेरूशैलं प्रत्यचालीज्जन्मोत्सवविधित्सया ॥३४५ ॥ अनुस्वामि दधावेऽथ, पर्यस्यद्भिः परस्परम् । अहम्पूर्विकया देवैरनुगीतं मृगैरिव ॥३४६ ॥ स्वामिनं पश्यतां दूराद्, दृष्टिपातैर्दिवौकसाम् । फुल्लनीलोत्पलवनाकीर्णेव द्यौरजायत ॥ ३४७ ॥ भूयो भूयो भगवन्तमुपेत्योपेत्य दूरतः । निरीक्षाञ्चक्रिरे देवाः, स्वधनं तद्धना इव ॥३४८ ॥ १ पूर्णिमा। २ देवाः। ३ भ्रमराः । ४ कृपणाः ।
1282828282828282828282828282
सौधर्मेन्द्रेण पञ्चरूपेण प्रभोर्मेरौ नयनम्।
॥४६॥