________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ ४१ ॥
KERERERERER
RERERER
शक्रस्तवेन वन्दित्वा, स्वामिनं पाकशासनः । वेलानिवृत्तोऽब्धिरिव, भेजे भूयः स्वभूमिकाम् ॥ २६२ ॥ अथ तत् तीर्थकृज्जन्म, सर्वान् ज्ञापयितुं सुरान् । तदुत्सवाय चाऽऽह्वातुं, गृहस्थः स्वजनानिव ॥ २६३ ॥ सद्यो रोमाञ्चितवपुर्वपुष्मानिव सम्मदः । आदिदेश शुनासीर:, सेनान्यं नैगमेषिणम् ॥ २६४ ॥ ॥ युग्मम् ॥ सादरं शिरसाऽऽदाय, पाकशासनशासनम् । सेनानीरपचक्राम, पीत्वेवाऽम्भः पिपासितः ॥ २६५ ॥ सुधर्मापरिषद्द्रव्याः, कण्ठघण्टामिवोद्भटाम् । सोऽताडयत् सुघोषां त्रिर्घण्टां योजनमण्डलाम् ॥ २६६ ॥ तस्याश्च ताड्यमानाया, विश्वकर्णपथातिथिः । समुत्तस्थौ महान् नादो, मथ्यमानाम्बुधेरिव ॥ २६७ ॥ एकोनद्वात्रिंशल्लक्षा, घण्टा अन्या अपि स्फुटम् । प्रणेदुरथ तन्नादाद्, गोनादादिव तर्णकाः ॥ २६८ ॥ तासां शब्देन घण्टानां, जृम्भमाणेन भूयसा । सौधर्मकल्पः सर्वोऽपि, शब्दाद्वैतमयोऽभवत् ॥ २६९ ॥ नित्यप्रमादिनस्तेषु, विमानेषु दिवौकसः । नादेन तेनाऽबुध्यन्त, सिंहा इव गुहाशयाः ॥ २७० ॥ आज्ञया घुसदांराज्ञो मन्ये केनाऽपि नाकिना । घोषणानाट्यनान्दीयं, सुघोषा वादिताऽधुना ॥ २७१ ॥ श्रोतव्या घोषणाऽवश्यं, वासवाज्ञाप्रकाशिनी । इत्याशयाद् दत्तकर्णमवातिष्ठन्त नाकिनः ॥ २७२ ॥ ॥ युग्मम् ॥ शान्ते सुघोषानिर्घोषे कण्ठनादेन भूयसा । पुरन्दरस्य सेनानीश्चकाराऽऽघोषणामिति ॥ २७३ ॥ भो भोः ! शृण्वन्तु गीर्वाणाः !, सौधर्मस्वर्गवासिनः । समादिशति वः सर्वानसौ दिविषदांपतिः ॥ २७४ ॥ जम्बूद्वीपस्य भरतेऽयोध्यायां पुरि भूपतेः । जितशत्रोः सधर्मिण्यां विजयायां जगद्गुरुः ॥ २७५ ॥ भाग्योदयेन विश्वस्य, विश्वानुग्रहकारकः । द्वितीयस्तीर्थनाथोऽद्य, प्रभुः समुदपद्यत ॥ २७६ ॥
१ सुधर्माख्यसभागव्याः । २ वत्साः । ३ हे देवाः ! ।
KYAYAYAYREREDEREREDERERERERE
द्वितीयं पर्व द्वितीयः सर्गः अजित
सगर
चरितम् ।
सौधर्मेन्द्रा
गमनम् ।
॥ ४१ ॥