________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः
सर्गः अजितसगरचरितम् ।
282828282828282828282828286
निसर्गेणाऽपि राजन्त्यौ, ते गर्भेणाऽतिरेजतुः । सरस्याविव सम्पूर्णे, मध्ये स्वर्णाम्बुजन्मना ॥११७॥ स्वर्णप्रभागौरमपि, तयोर्वदनपङ्कजम् । पाण्डिमानं दधौ दन्तिदन्तच्छेदच्छविस्पृशम् ॥ ११८ ॥ तयोः कर्णान्तविश्रान्ते, स्वभावादपि लोचने । अधिकं सविकासे चाऽजायेतां शरदब्जवत् ॥ ११९ ॥ तयोर्लवणिमा ताहगवर्धिष्टाऽधिकाधिकम् । सद्यो मार्जितयोः कान्ति,म्योरिव शलाकयोः ॥१२०॥ अग्रेऽपि मन्थरं यान्त्यौ, विशेषादतिमन्थरम् । देव्यौ सञ्चरतू राजहंस्याविव मदालसे ॥१२१ ॥ अतिगूढं ववृधाते, तयोर्गी सुखप्रदौ । नलिनीनालवन्नद्योः, शुक्त्योमौक्तिकरत्नवत् ॥१२२ ॥ ततो नवसु मासेषु, दिनेष्वर्धाष्टमेषु च । गतेषु माघमासस्य, शुक्लाष्टम्यां शुभे क्षणे ॥१२३ ॥ ग्रहेषूच्चस्थितेष्वृक्ष, रोहिण्यां गजलाञ्छनम् । असूत विजया सूनुं, पुण्यं सूनृतवागिव ॥१२४ ॥ प्रसूतिदुःखं नो देव्या, न सूनोरप्यजायत । स एष तीर्थनाथानां, प्रभावो हि स्वभावजः ॥ १२५ ॥ जज्ञे तदानीमुद्योतः, क्षणं त्रिभुवनेऽपि हि । अकाण्डोद्भूतनिर्मेघविधुदुद्योतसोदरः॥१२६ ॥ नारकाणामपि सुखं, तदा क्षणमजायत । अभ्रच्छायासुखमिव, पान्थानां शरदागमे ॥१२७ ॥ शरद्यपामिव तदा, प्रसादः ककुभामभूत् । अत्युल्लासश्च लोकानां, कमलानामिवोषसि ॥१२८॥ प्रदक्षिणोऽनुकूलश्च, भूमिसी च मारुतः । मन्दं मन्दं ववौ सद्यो, भूतलादुद्भवन्निव ॥१२९ ॥ सञ्जज्ञिरे समन्ताच्च, शकुनाः शुभसूचकाः । सर्वं हि शुभमेव स्याज्जन्मतोऽपि शभात्मनाम् ॥१३० ॥ तदा च दिक्कुमारीणामासनानि चकम्पिरे । उन्मनांसीवोत्पतितुं, जिनान्तिकयियासया ॥१३१ ॥ १ लावण्यम् । २ नक्षत्रे। ३ उत्सुकानीव। ४ जिनसमीपं जिगमिषया।
282828282828282828282828285
अजितप्रभो
जन्म।
॥३१॥