________________
द्वितीयं पर्व
त्रिषष्टिशलाकापुरुषचरिते
प्रथमः
सर्गः अजित
॥१२॥
सगरचरितम् ।
1282828282828282828282828282
आच्छिन्दता च राज्यानि, प्रसह्याऽन्यमहीभुजाम् । अदत्तादानमेवैकमाजन्माऽऽचरितं मया ॥ १५६ ॥ रतिसागरमध्यावगाढेन च निरन्तरम् । शिष्येणेव मन्मथस्याऽब्रह्मैवाऽनुष्ठितं मया ॥१५७॥ प्राप्तैरथैरतृप्तस्याऽप्राप्यानर्थान् जिघृक्षतः । इयत्कालमहो! मोहान्मूर्छा मेऽभूद् बलीयसी ॥ १५८ ॥ हिंसादीनामेकतमोऽपि हि दुर्गतिकारणम् । स्पृष्ट एकोऽपि चण्डालः, स्यादस्पृश्यत्वकारकः ॥१५९ ॥ ततः प्राणातिपातादिपञ्चकात् सकलादपि । विरतिं प्रतिपत्स्येऽद्य, वैराग्याद् गुरुसन्निधौ ॥ १६०॥ कुमारे कवचहरे, राज्यभारमिमं पुनः । निधास्यामि निजं तेजो, वह्नौ सायमिवार्यमा ॥ १६१ ॥ भाव्यं मयीव युष्माभिः, कुमारेऽप्युरुभक्तिभिः । अनया शिक्षयाऽलं वा, जात्यानां शीलमप्यदः ॥१६२॥ अथैवं मन्त्रिणोऽप्यूचुः, स्वामिन्नेवंविधा धियः । न ह्यनासन्नमोक्षाणां, भवन्ति भविनां क्वचित् ॥१६३॥ युष्माकं पूर्वजन्मानोऽप्याजन्माखण्डशासनाः । अवनीं साधयामासुर्बिडौजस इवौजसा ॥१६४॥ राज्यमुत्सृज्य निष्ठ्यूतमिवाऽनिष्ठितशक्तयः । व्रतमाददिरे सर्वे, रत्नत्रयपवित्रितम् ॥ १६५ ॥ इमं देवोऽपि भूभारं, बभार स्वभुजौजसा । शोभाभूता वयं तत्र, रम्भास्तम्भा इवौकसि ॥१६६ ॥ इदं देवस्य साम्राज्यं, यथाक्रमसमागतम् । सावदानं निर्निदानं, व्रतादानमिदं तथा ॥ १६७ ॥ लीलाकमलवद् वोढुं, क्षमाभारमसौ क्षमः । कुमारोऽपि हि देवस्य, द्वितीय इव चेतनः ॥१६८॥ यदि गुह्णाति गुह्णातु, दीक्षां मोक्षफलां विभुः । आरोहत्युच्चकैः काष्ठां, स्वामिन्यस्माकमुत्सवः ॥१६९ ॥ निशातन्यायनिष्ठेन, सत्वशौण्डीर्यशालिना । देवेनेव कुमारेणाऽप्यस्तु राजन्वती मही ॥१७० ॥
१ सूर्यः । २ पूर्वजाः। ३ इन्द्रा। ४ सपराक्रमम् । ५ निदानरहितम् । ६ आत्मा। ७ तीक्ष्णः ।
1282828282828282828282828282
पूर्वभवचरिते प्रथमो विमलवाहनभवः।
॥१२॥