________________
द्वितीयं पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते ॥१॥
सर्गः
अजितसगरचरितम्।
182828282828282828282828286
[ प्रथमः सर्गः।। जयन्त्यजितनाथस्य, जितशोणमणिश्रियः । नमेन्द्रवदनादर्शाः, पादपद्मद्वयीनखाः ॥१॥ कर्माहिपाशनिर्णाशजालीमन्त्रसन्निभम् । अजितस्वामिदेवस्य, चरितं प्रस्तवीम्यतः ॥२॥ नाभीसनाभेपानां, जम्बूद्वीपस्य मध्यगम् । दुःषमसुषमाप्रायं, विदेहक्षेत्रमस्ति तत् ॥३॥ अस्ति तत्र महानद्याः, सीताया दक्षिणे तटे । विजयो वत्स इत्याख्याविख्यातो विपुलर्द्धिकः ॥ ४॥ एकदेश इव स्वर्गप्रदेशस्य भुवं गतः । अभ्राजिष्ट स बिभ्राणो, रामणीयकमद्भुतम् ॥५॥ तत्रोपर्युपरि ग्राम, ग्रामैरथ पुरं पुरैः । निवसद्भिर्यदि परं, नभस्येव हि शून्यता ॥६॥ सम्पदा निर्विशेषाणां, परस्परमतुच्छया । पूर्गामाणां तत्र भेदो, राजाश्रयकृतो यदि ॥७॥ स्वच्छस्वादुजलास्तत्र, महावाप्यः पदे पदे । क्षीराम्भोनिधिनिर्गच्छत्सिराभिरिव परिताः ॥८॥ तत्र चाऽलब्धमध्यानि, स्वच्छानि च महान्ति च । स्थाने स्थाने तडागानि, मनांसीव महात्मनाम् ॥९॥ तत्राऽऽवल्लीबहला, आरामाश्च पदे पदे । तन्वन्ति मेदिनीदेव्याश्चित्रपत्रलताभ्रमम् ॥१०॥ ग्रामे ग्रामे चेक्षुवाटास्तत्र पान्थतृषाच्छिदः । महेक्षुभिः शोभमाना, रसाम्भस्कुम्भसन्निभैः ॥११॥ १ पद्मरागमणिः । २ कर्मनागपाशनाशे जाङ्गलीमन्त्रसमम् । ३ नाभिसदृशस्य। ४ इक्षुक्षेत्राणि ।
28282828282828282828282888
पूर्वभवचरिते प्रथमो विमलवाहनभवः ।
॥१॥