________________
& Ô
पृष्ठ क्र. २०८
॥३७॥
mm X J w 9 von
सुभाषितम् । सोऽध्वा यो महदाश्रितः।
तृतीयापर्वान्तर्गतानि सुभाषितानि । नदीवन्न नदीभर्तुरुत्सेकाय घनागमः । दुर्लझ्या भवितव्यता। सरस्या हि सरोजानि विशिष्यन्ते शरत्क्षणे । महतां पुण्यं पुण्यानुबन्धकम् । प्रतिमायाः प्रभावोऽधिष्ठातृदेवोचितः खलु । गृहवासो हि संसारतरोर्दोहदमुत्तमम् । दैवस्य विषमा गतिः । राज्ञा दृष्टः कुदृष्टो वा निर्णयो ह्यपुनर्भवः । कोकिलायाः खल्वपत्यं काक्या पुष्टोऽपि कोकिलः । शिष्या गुरुणां कूपानामाहावा इव तक्रियाः । अपि त्रिलोकनाथानां मान्यं हि पितृशासनम् । भगवन्तो हि कर्मच्छेदाय तत्पराः । निवृक्षे देशे क्रियते ोरण्डस्यापि वेदिका । विहायसो महत्त्वे हि नोपमानं भवेत्परम् ।
११
१०९
IIF७॥
११२