________________
त्रिषष्टिशलाका
पुरुषचरिते ॥८५॥
अथ सौधर्मकल्पेन्द्रः प्रणम्य परमेश्वरम् । विरचय्याञ्जलिं मूर्ध्नि स्तोतुमेवं प्रचक्रमे ॥ ८३ ॥ निःशेषभुवनकोशपद्मकोशविवस्वते । तुभ्यं नमो भगवते श्रीमते सप्तमार्हते ।। ८४ ॥ गतं दुःखेन विश्वस्याविर्भूतं च मुदा प्रभो । विश्वं तीर्थपरावृत्त्या परावृत्तमिवाधुना ॥ ८५ ॥ धर्मचक्रिंस्तव वचोरत्नदण्डेन भास्वता । निर्वाणवैताढ्यगिरेर्द्वारमद्योद्घटिष्यते ॥ ८६ ॥ उन्नतस्येव मेघस्य भगवन् ! दर्शनं तव । विश्वस्य जीवलोकस्य सन्तापच्छेदनान्मुदे ॥ ८७ ॥ अनंतज्ञान ! भगवन् ! देशनावचनं तव । दरिद्रैर्द्रविणमिव चिरादस्माभिराप्स्यते ।। ८८ ।। कृतार्था दर्शनेनापि तवाद्य वचनेन तु । विशेषतो भविष्यामो मुक्तिद्वारप्रकाशिना ।। ८९ ।। अनन्तदर्शनज्ञानवीर्यानन्दमयात्मने । सर्वातिशयपात्राय तुभ्यं योगात्मने नमः ।। ९० ।। इन्द्रादिपदवीप्राप्तिः कियदेतज्जगत्पते । तव शुश्रूषया यस्मात् त्वाध्शैरपि भूयते ॥ ९१ ॥ इति स्तुत्वा द्युसन्नाथे तूष्णीकत्वमुपेयुषि । प्रारेभे भगवानेवं सर्वज्ञो धर्मदेशनाम् ।। ९२ ।। आत्मनः सर्वमप्येतदन्यत् तदिह तत्कृते । कृत्वा कर्म भवाब्धौ स्वं पातयत्यबुधो जनः ।। ९३ ॥ यत्रान्यत्वं शरीरस्य वैसेदृश्याच्छरीरिणः । धनबन्धुसहायानां तत्रान्यत्वं न दुर्वचम् ।। ९४ ।। यो देहधनबन्धुभ्यो भिन्नमात्मानमीक्षते । क्व शोकशङ्कुना तस्य हन्ताऽऽतङ्कः प्रतन्यते ? ।। ९५ ।। १ समग्रभुवनकोश एव पद्मकोशस्तस्मिन् विवस्वान् सूर्यः तस्मै । २ दीप्तिमता, सूर्येण च । ३ हर्षाय । ४ द्रव्यम् । ५ आत्मना वैलक्षण्यात् । ६ भयम् ।
तृतीयं पर्व
पञ्चमः
सर्गः
श्रीसुपार्श्व -
जिनचरितम् ।
शक्रस्तुतिः ।
।। ८५ ।।