________________
तृतीयं पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते
॥३०॥
सर्गः
श्रीसम्भवजिनचरितम् ।
तुर्यज्ञानिनां द्वादशः सहस्राः सार्धकं शतम् । सहस्राणि पञ्चदश केवलज्ञानिनां पुनः ।। ३९३ ।। वैक्रियलब्धिसहस्रा विंशतिर्द्विशतोनिता । द्वादशैव सहस्राणि वादलब्धिमतां पुनः ।। ३९४ ॥ सहस्रैः सप्तभिन्यूंना श्रावकाणां त्रिलक्ष्यथ । श्राविकाणां च षड्लक्षी सषट्त्रिंशत्सहस्रिका ॥३९५ ॥ आरभ्य केवलात्पूर्वलक्षं व्यहरत प्रभुः । चतुर्दशाब्द्या च चतुःपूर्वाङ्या च विवर्जितम् ॥३९६ ॥ ज्ञात्वात्मनो मोक्षकालं सर्वज्ञो भगवानथ । सम्मेतशैलशिखरं जगाम सपरिच्छदः ।।३९७ ॥ समं मुनिसहस्रेण तत्र च प्रत्यपद्यत । पादपोपगमं नामानशनं सम्भवप्रभुः ॥३९८ ॥ सुरासुराणामधिपास्तदानीं सपरिच्छदाः । तत्रैत्य भक्तितस्तस्थुः सेवमाना जगत्प्रभुम् ।।३९९ ॥ मासान्ते सम्भवस्वामी सर्वयोगनिरोधिनीम् । शैलेशी शैलनिष्कम्पः प्रपेदे ध्यानमन्तिमम् ।। ४०० ॥ चैत्रस्य सितपञ्चम्यां विधौ मृगशिरःस्थिते । सिद्धानन्तचतुष्कोऽगादव्याबाधपदं प्रभुः ॥ ४०१ ॥ सहस्रं मुनयस्तेऽपि स्वामिनोंऽशा इवामलाः । तेनैव विधिना प्रापुस्तदेव परमं पदम् ।। ४०२ ॥ पूर्वलक्षाः कुमारत्वे ययुः पञ्चदश प्रभोः । चतुश्चत्वारिंशद् राज्ये सपूर्वाङ्गचतुष्टयाः ॥ ४०३ ॥ प्रव्रज्यायां पूर्वलक्षं चतुष्पूर्वांगवर्जितम् । इत्यायुः पूर्वलक्षाणि षष्टिः श्रीसम्भवप्रभोः ॥ ४०४ ॥ अजितस्वामिनिर्वाणात् कोटिलक्षेषु त्रिंशति । सागराणां गतेष्वासीन्निर्वाणं सम्भवप्रभोः ।। ४०५ ।।
तत्राथ सम्भवजिनाधिपतेः शरीरसंस्कारमन्यदपि कर्म यथावदिन्द्राः ।
चक्रुर्विभज्य जगूहुश्च यथार्हमेते दंष्ट्रा रेदान् दिविषदः पुनरस्थिजातम् ।। ४०६ ॥ १ अनेकरुपोत्पादकतन्नाम्नि लब्धिविशेषवतां ।२ तन्नामकं ध्यानम् । ३ दन्तान् । ४ देवाः ।
ASIRSAGARRAHARS
सम्भवजिनस्य निवार्णम् ।