________________
त्रिषष्टिशलाका
द्वितीयं पर्व
षष्ठः
पुरुषचरिते
॥२१५ ॥
सर्गः अजितसगरचरितम् ।
88888888888888888888888888
पर्यङ्कस्थः काययोगे, बादरेऽवस्थितोऽरुणत् । बादरौ चित्त-वाग्योगा, रथस्थ इव वाजिनौ ॥६७८ ॥ सक्ष्मेण काययोगेन, काययोगं च बादरम् । ततो रुरोध भगवान्, दीपेन ध्वान्तपूरवत् ॥६७९॥ काययोगे स्थितः सूक्ष्मे, योगौ वाक्चित्तयोरपि । सूक्ष्मौ रुरोध भेजे च, ध्यानं सूक्ष्मक्रियं ततः ॥६८०॥ शक्लध्याने चतुर्थे च, शैलेशीकरणं प्रभुः । पञ्चलघ्वक्षरोच्चारमात्रकालं समाश्रयत् ॥६८१॥ क्षीणावशिष्टकर्मा च, सिद्धानन्तचतुष्टयः । परमात्मा प्रभुः प्राप, लोकाग्रमृजुना पथा ॥६८२ ॥
अष्टादश पूर्वलक्षी, कौमारेऽगाज्जगत्पतेः । पूर्वलक्षास्त्रिपञ्चाशद्, राज्ये पूर्वाङ्गसंयुताः ॥ ६८३ ॥ हा व्रते छद्मस्थभावेऽगाद्, द्वादशाब्यथ केवले । पूर्वलक्षं द्वादशाब्द्या, पूर्वाङ्गेण च वर्जितम् ॥ ६८४ ॥
ततश्चर्षभनिर्वाणानिर्वाणमजितप्रभोः । पञ्चाशत्कोटिलक्षेषु, सागराणां गतेष्वभूत् ॥ ६८५ ॥ सहस्रं मुनयस्तेऽपि, पादपोपगमस्थिताः । उत्पन्नकेवला रुद्धयोगास्तद्वद् ययुः शिवम् ॥ ६८६ ॥ तत्र कृत्वा समुद्घातं, सगरोऽपि महामुनिः स्वामिप्राप्तं पदं प्रापाऽनुपदीव क्षणादपि ॥ ६८७ ॥ तदा च स्वामिनिर्वाणपर्वणा समजायत । अदृष्टशर्मणां शर्म, नारकाणामपि क्षणम् ॥६८८॥ अथाऽङ्गं स्वामिनः शक्रो, दिव्यैरस्नपयज्जलैः । गोशीर्षचन्दनरसैः, सशोको विलिलेप च ॥६८९ ॥
पडं वासयामास, वाससा हंसलक्ष्मणा । भूषयामास च हरिविचित्रैर्दिव्यभूषणैः ॥ ६९०॥ मुनीनामपरेषां तु, शरीरेषु दिवौकसः । स्नानाऽङ्गराग-नेपथ्या-ऽऽच्छादनानि वितेनिरे ॥६९१ ॥
१ अनुगामीव। ३ सुखम् । ३ आच्छादयामास ।
288888888888888888888888888
अजितप्रभुनिर्वाणमहोत्सवः।
॥२१५ ॥