________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ २०८ ॥
CREDER
GREDE DERER!
वात्येव तृण्याः कर्षन्ती, वर्तनीवर्तिनीर्नदीः । भगीरथेन पूर्वाम्भोनिधिं गङ्गाऽवतारिता ।। ५७५ ॥ ततः प्रभृति तत् तीर्थं, गङ्गासागर इत्यभूत् । कृष्टा भगीरथेनेति, गङ्गा भागीरथीति च ॥ ५७६ ॥ यत्र यत्र बभञ्जाऽहिभवनानि व्रजन्त्यसौ । भगीरथस्तत्र तत्र, नागेभ्यः प्रददौ बलिम् ॥ ५७७ ॥ तेषां सगरपुत्राणां, शरीरास्थीनि तानि च । तेन गङ्गाप्रवाहेण, निन्यिरे पूर्वसागरम् ॥ ५७८ ॥ दध्यौ भगीरथश्चैवं, साधु जातमिदं ह्यहो ! । मत्पितॄणां यदस्थीनि, गङ्गयेयुः पयोनिधिम् ॥ ५७९ ॥ गृध्रादिचञ्च-चरणविलग्नान्यन्यथा पुनः । पतेयुरशुचिस्थानेष्वनिलोद्धूतपुष्पवत् ॥ ५८० ॥ एवं विचिन्तयन् प्रीतैर्जलापातापदुज्झितैः । लोकैर्लोकम्पृणोऽसीति, प्रशशंसे चिरं हि सः ॥ ५८१ ॥ तदा पितॄणामस्थीनि तेन क्षिप्तानि यज्जले । क्षिपत्यद्यापि तल्लोकः, सोऽध्वा यो महदाश्रितः ॥ ५८२ ॥ ततः स्थानान्निववृते, रथारूढो भगीरथः । रथप्रचारेण भुवं, रासयन् कांस्यतालवत् ॥ ५८३ ॥ स आगच्छन्नथ पथि, कल्पद्रुममिव स्थितम् । ददर्शैकं भगवन्तं, केवलज्ञानिनं मुनिम् ॥ ५८४ ॥ उदयाद्रेरिवाऽऽदित्यो, गरुत्मानम्बरादिव । सानन्दः स्यन्दनवरात्, तस्मादवततार सः ॥ ५८५ ॥ आलोकमात्रे तं नत्वा, भक्त्या केवलिनं मुनिम् । स त्रिः प्रदक्षिणीचक्रे, भक्तिदक्षोऽतिदक्षिणः ॥ ५८६ ॥ तं प्रणम्य पुरः स्थित्वा, पप्रच्छैवं भगीरथः । ममाऽम्रियन्त पितरो, युगपत् केन कर्मणा ? ॥ ५८७ ॥ त्रिकालवेदी भगवान्, करुणारससागरः । एवं गदितुमारेभे, मधुरोद्गारया गिरा ॥ ५८८ ॥ श्रावकैर्विपुल श्रीकैः, श्री श्रीसंश्रितैरिव । पूर्णः सङ्घश्चचालैकस्तीर्थयात्राकृते पुरा ॥ ५८९ ॥ १ तृणसमूहान् । २ मार्गान्तर्वर्त्तमानाः । ३ नागभवनानि । ४ जलस्य आपातस्तेन या आपत् तदुज्झितैः । ५ रासक्रीडां कारयन् । ६ कुबेरलक्ष्म्याश्रितैरिव ।
GREREREREDEREREREREDE DE DE DE
द्वितीयं पर्व
षष्ठः
सर्गः
अजित
सगर
चरितम् ।
गङ्गाप्रवाह
स्खलनाय भगीरथस्य
गमनम् ।
।। २०८ ॥