________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व पञ्चमः
सर्गः
॥१६७॥
ईक्षाञ्चक्रे च तान् मङ्क, दृष्ट्या दृष्टिविषाधिपः । भस्मराशीबभूवुस्ते, वह्निना तृणपूलवत् ॥१७६ ॥ जज्ञे हाहारवस्तत्र, रोदःकुक्षिम्भरिर्महान् । लोके स्यादनुकम्पायै, सागसामपि निग्रहः ॥१७७ ॥ षष्टिं सहस्रान् सगरात्मजानां, स तान् कथाशेषतया विधाय । रसातलं नागपतिः सनागो, ययौ विवस्वानिव वासरान्ते ॥ १७८ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये
पर्वणि सगरपुत्रनिधनो नाम पञ्चमः सर्गः।
अजितसगरचरितम् ।
8282828282828282828282888
8282828282828282828282828
सगरपुत्राणां नधनम्।
॥१६७॥