________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व पञ्चमः सर्गः अजितसगरचरितम् ।
॥१६०॥
1282828282828282828282828286
कृतस्नानाः कृतप्रायश्चित्त-कौतुकमङ्गलाः । चक्रिणः सर्वसैन्येन, ते कुमाराः प्रतस्थिरे ॥७३॥ स्त्रीरत्नवर्जं रत्नानि, सर्वाण्यपि महीपतिः । प्रजिंघाय सुतैः सार्धमात्मैव हि सुतत्वभाक् ॥७४ ॥ केचिद् गजवरारूढा, दिक्पालाकारधारिणः । अश्वानधिष्ठिताः केचिदतिरेवन्तमूर्तयः ॥७५ ॥ अध्यासीना रथान् केचिदादित्याद्या इव ग्रहाः । किरीटधारिणः सर्वेऽप्यधीशा धुसदामिव ॥७६ ॥ वक्षः स्थललुलद्धाराः, ससरित्का इवाऽद्रयः । देवता इव भूप्राप्ता, विविधायुधपाणयः ॥ ७७॥ | छत्रलाञ्छितमूर्धानो, द्रुमाङ्का व्यन्तरा इव । आत्मरक्षैः परिवृता, वेलाधारैरिवाऽब्धयः ॥७८ ॥
अविहस्तोदस्तहस्तैः, स्तूयमानाश्च मागधैः । वसुन्धरां दारयन्तस्तुरङ्गमखुरैः खरैः ॥७९॥ तूर्यप्रणादैर्बधिरीकुर्वाणाः सर्वतो दिशः । अन्धीकुर्वन्त उत्क्षिप्तै रजोभिश्च भूरिभिः ॥८॥ उद्यानेष विचित्रेषद्यानानामिव देवताः । गिरिप्रस्थेषु च गिरिकुमारा इव हारिणः ॥८१॥ सरित्पुत्रा इव सरित्पुलिनेषु च चारुषु । स्वच्छन्दं रममाणास्ते, बभ्रमुर्भरतावनौ ॥८२॥॥अष्टभिः कुलकम्॥ ग्रामा-ऽऽकर-पुर-द्रोणमुख-खेटादिषु व्यधुः । जिनार्चा विचरन्तस्ते, माला विद्याधरा इव ॥ ८३ ॥ भुञ्जाना बहुधा भोगान्, ददाना बहुधा धनम् । सुहृज्जनान् प्रीणयन्तो, विनिघ्नन्तोऽसुहज्जनान् ॥ ८४ ॥ दर्शयन्तः पथि चलल्लक्षपातनकौशलम् । भृशमन्यापतच्छस्त्रग्रहणस्य च नैपुणम् ॥ ८५ ॥ शस्त्राशस्त्रिकथाश्चित्रास्तास्ता नर्मकथा अपि । यानाधिरूढैः कुर्वाणाः, सवयोभिः समं नपैः ॥८६॥ अप्यालोकनमात्रेण, क्षुत्तृषाहरणौषधम् । तेऽन्यदाऽष्टापदं प्रापुरास्पदं पुण्यसम्पदाम् ॥ ८७ ॥
१ प्राहिणोत् । २ सूर्यपुत्राधिकरूपाः। ३ अव्याकुलोद्धर्वकरैः । ४ कठोरैः। ५ मनोहराः । ६ शत्रून्। ७ हास्यकथाः ।
1282828282828282828282828286
सगरपुत्राणां देशदर्शनम्।
॥१६०॥