________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व चतुर्थः सर्गः अजित
॥१५०॥
सगर
चरितम् ।
18282828282828282828282828
दिने दिने योजनिकैः, प्रयाणैः सुखमापतन् । सगरो नगरी प्राप, विनीतां दयितामिव ॥३०१॥
॥चतुर्भिः कलापकम् ॥ विनीतायाः परिसरे, सरित्पतिरिवावधौ । निवेश्य शिबिरं राजाऽवतस्थे स्थेमपर्वतः ॥३०२॥ तत्राऽपरेद्युः सगरो, वाह्याल्यां वाहकेलये । एकं सूकलमारुह्य, ययौ सर्वकलानिधिः ॥३०३ ॥ तत्र विक्रमयामास, चतुरं तं तुरङ्गमम् । उत्तरोत्तरधारासु, क्रमेणाऽऽरोपयच्च सः ॥ ३०४ ॥ आरूढः पञ्चमी धारामुत्पपात नभस्तले । वल्गादिसंज्ञानभिज्ञीभूतो भूतैरिवाश्रितः ॥ ३०५ ॥ सगरं सोऽपहृत्याऽश्वोऽश्वरूप इव राक्षसः । महारण्ये प्रचिक्षेप, कालाक्षेपेण रंहसा ॥ ३०६ ॥ वल्गां सामर्षमाकृष्योरुभ्यां चाऽऽक्रम्य पार्श्वयोः । दधार सगरोऽश्वं तं, झम्पां दत्त्वोत्ततार च ॥३०७॥ विधुरस्तुरगः सोऽपि, पपात पृथिवीतले । पृथ्वीनाथोऽपि पादाभ्यामेव गन्तुं प्रचक्रमे ॥ ३०८ ॥ यावत् किञ्चिद् ययौ तावद्, ददशैकं महासरः । आदित्यकरपर्यस्तां, भूभ्रष्टामिव चन्द्रिकाम् ॥ ३०९ ॥ तत्र श्रमापनोदाय, सत्रौ वन्य इव द्विपः । स्वादु स्वच्छं पद्मगन्धि, शीतं च स पयः पपौ ॥३१० ॥ निर्ययौ सरसस्तस्मात्, स तस्थौ तीरसीमनि । ददर्श चैकां युवति, जलदेवीमिवाऽग्रतः ॥३११ ॥ तां नवाम्भोजवदनां, नीलोत्पलविलोचनाम् । तरङ्गायितलावण्यजलां चक्रयुगस्तनीम् ॥ ३१२ ॥ स्मेरकोकनदोद्दामपाणिपादमनोरमाम् । शरीरिणी सरोलक्ष्मी, स पश्यन्नित्यचिन्तयत् ॥३१३ ॥ अप्सराः किं? व्यन्तरी किं?, किमथो नागकन्यका? । विद्याधरी वा किमियं?,न सामान्येदृशी भवेत् ॥३१४॥
१ पराक्रमगिरिः । २ अश्वक्रीडाभूमौ । ३ अश्वक्रीडायै । ४ उद्धताश्वम्। ५ अविलम्बेन। ६ रक्तकमलम् ।
282828282828282828282828285
सगरस्य स्त्रीरलप्राप्तिः
॥१५०॥