________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १४८ ॥
'REDEREREREDERERERERERERERY
नृपादेशेन सेनानीरष्टमादिपुरःसरम् । तमिस्रावद् गुहां खण्डप्रपातामुदघाटयत् ॥ २७३ ॥ सगरो गजमारुह्य तत्कुम्भे दक्षिणे मणिम् । मेरुशृङ्ग इवाऽऽदित्यं न्यस्य तां प्राविशद् गुहाम् ॥ २७४ ॥ मण्डलान्यालिखन् प्राग्वत्, काकिण्या पार्श्वयोर्द्वयोः । उत्तीर्ण प्राग्वदुन्मग्ना - निमग्ने निम्नगे अपि । २७५ ॥ गुहाया मध्यतस्तस्या अपाग्द्वारेण भूपतिः । स्वयमुद्घाटितेनाऽथ, नद्योघ इव निर्ययौ ॥ २७६ ॥ गङ्गायाः पश्चिमे कूले, स्कन्धावारं न्यधान्नृपः । उद्दिश्य निधिरत्नानि विदधे चाऽष्टमं तपः ॥ २७७ ॥ तदन्ते नैसर्प-पाण्डू, पिङ्गलः सर्वरत्नकः । महापद्मः काल-महाकालौ माणव- शङ्खकौ ॥ २७८ ॥ इत्येते नव निधयः, कृतसन्निधयोऽमरैः । सहस्रसङ्ख्यैः प्रत्येकं, नरेन्द्रमुपतस्थिरे ॥ २७९ ॥ इत्यूचुस्ते वयं गङ्गामुखमागधवासिनः । आगतास्त्वां महाभाग !, त्वद्भाग्येन वशीकृताः ॥ २८० ॥ यथाकाममविश्रान्तमुपभुङ्क्ष्व प्रयच्छ च । अपि क्षीयेत पाथोऽब्धौ न तु क्षीयामहे वयम् । २८१ ॥ नवभिर्यक्षसहस्रैः, किङ्करैरिव तावकैः । आपूर्यमाणाः सततं, चक्राष्टकप्रतिष्ठिताः ॥ २८२ ॥ द्वादशयोजनायामा, नवयोजनविस्तृताः । भूमध्ये सञ्चरिष्यामो देव! त्वत्पारिपार्श्विकाः ॥ २८३ ॥ ॥ चतुर्भिः कलापकम् ॥
तद्वाचमनुमन्याऽथ, भूपतिः कृतपारणः । अष्टाह्निकोत्सवं तेषामकार्षीदातिथेयवत् ॥ २८४ ॥ सेनानीः सगरादेशाद्, द्वितीयमपि निष्कुटम् । प्राचीनं जाह्नवीदेव्याः, साधयामास खेटवत् ॥ २८५ ॥ चतुर्भिर्निष्कुटैर्गङ्गा-सिन्ध्वोर्मध्यस्थितेन च । खण्डद्वयेन षट्खण्डं, भारतं वर्षमित्यदः ॥ २८६ ॥
१ क्षुद्रग्रामवत् ।
FREREDERERERERERERERERERERY!
द्वितीयं पर्व चतुर्थः सर्गः
अजित
सगर
चरितम् ।
सगरस्य
दिग्विजयः ।
॥ १४८ ॥