________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ६९ ॥
FREDEREREREREREREREDERERERY
जितशत्रुर्नरेन्द्रोऽथ, महेन्द्रश्चाऽजितप्रभुम् । नीरागमपि वीवाहकर्मणे स्वयमूचतुः ॥ ७२ ॥ उपरोधात् तयोः स्वं च, कर्म भोगफलं विदन् । तद्वाचमजितस्वामी, तथेति प्रत्यपद्यत ॥ ७३ ॥ श्रियो मूर्त्त्यन्तराणीव, शतशोऽथ स्वयंवराः । तेन राजा राजकन्या, महद्धर्ध्या पर्यणाययत् ॥ ७४ ॥ देवकन्योपमा राजकन्यकाः सगरेण च । पुत्रोद्वाहोत्सवातृप्त्योदवाहयदिलीपतिः ॥ ७५ ॥ अँजितोऽपीन्द्रियै रेमे, रामाभिरजितप्रभुः । भोग्यकर्म क्षपयितुं, यथाव्याधि हि भेषजम् ॥ ७६ ॥ नानाविद्याभिः क्रीडाभिः, क्रीडास्थानेष्वनेकशः । रामाभिः सगरोऽरंस्त, करेणुभिरिव द्विषः ॥ ७७ ॥ समं भ्रात्रा भवोद्विग्नो, जितशत्रुनृपोऽन्यदा । सम्पूर्णाष्टादशपूर्वलक्षौ पुत्रावदोऽवदत् ॥ ७९ ॥ निर्वाणंसाधने हेतुभूतमाददिरे व्रतम् । तदेव हि निजं कार्यं, परकार्यमतः परम् ॥ ८० ॥
आवामपि ग्रहीष्यावः, कुमारौ ! सम्प्रति व्रतम् । स्वकार्यस्य ह्ययं हेतुरेष वंशक्रमश्च नः ॥ ८१ ॥ ततो राज- युवराजावावामिव युवामिह । भवतं चाऽनुजानीतमद्य प्रव्रजनाय नौ ॥ ८२ ॥ अथोवाचाऽजितस्वामी, तात ! युक्तमिदं हि वः । ममापि युज्यते विघ्नः, कर्म भोगफलं न चेत् ॥ ८३ ॥ अन्यस्यापि व्रतादाने, न विघ्नाय विवेकिनः । किं पुनस्तातमिश्राणामहं समयसाधिनाम्? ॥ ८४ ॥ पितुः पुमर्थं तुर्यं यो, भक्त्याऽपि हि निषेधति । सुतव्याजाद् द्विषन्नेव, स हि तस्योदपद्यत ॥ ८५ ॥
१ अजितस्वामिना सह । २ जितशत्रुः । ३ राजा । ४ न जितः । ५ रोगानुरूपम् । ६ मोक्षसाधने । ७ सङ्केतितकाले आराधनाकारिणाम् ।
८ पुत्रमिषात् ।
CREDEREREREREDEREREREREDERE
द्वितीयं पर्व तृतीय: सर्गः
अजित
सगर
चरितम् ।
अजितजिनराज्याभिषेक: तत्पितुर्दी
क्षा च
॥ ६९ ॥