SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । ७१ तिपादनात्पुरुषपदान्त्र द्वितीया एवं विषवृक्षोऽपि सम्ब स्वयं छेत्तुमसांप्रतमित्यादौ निपातेन कर्माभिधानाहूचपदान्न द्वितीया । उक्तार्थानामप्रयोग इति न्यायमेवानुवदतोदं सूत्रम् । अत एव धात्वर्थान्तर्भूतकर्मक धातुयोगे न द्वितीया । यथा उदयगिरिसंयोगानुकूलव्यापारवाचिन उदयतेर्योगे उदयगिरिमुदेतौति न द्वितीयाप्रयोगः । एवमनभिहिते इति कर्तादौ सर्वत्र सम्बध्यते तेनाभिहिते कर्तरि करणे च न तृतीया । संप्रदाने न चतुर्थी तथा ऽपादाने न पञ्चमी तथाऽधिकरणे न सप्तमी कर्त्राद्यभिधानं तु कारकलक्षणे दर्शितमिति । नन्वभिहिते कर्मणि द्वितीयानिषेधे एकमोदनं भुङ्क्ते इत्यादौ कृता कर्माभिधानादोदनपदाद् द्वितीया न स्यात् । न च भोजनकर्मणोऽनभिधानाद द्वितौयोपपत्तिरिति वाच्यम् । एवमपि चैत्रेण गम्यमानं ग्रामं मैत्री गच्छतीत्यादौ गमिकर्मणः कृताभिधानात् द्वितीयाऽनुपपत्त ेः । न च चैत्रक कगमनकर्मणोऽभिधानेऽपि मैत्रक कगमनक मेोऽनभिधानात् न द्वितीयाऽनुपपत्तिरिति वाच्यम् । एवमपि दृष्टमपि कान्तं मुजः पश्यतीत्यादी कर्तभेदेनापि क्रिय भेदविरहात दृशिक्रियाकर्मणः कृताभिधानात् द्दितीयानुपपत्तं । एवं दृश्यं पश्यति कयं क रोति इत्यादौ यत्प्रत्ययेन कर्मणाऽभिधानात् द्वितीयापपत्तश्चेति चेन्न । यतो ऽनभिहिते" इति सूत्रस्यान्य एवं तात्पर्यार्थः । तथा हि । अनभिहिते इति सति सप्तमी तेन कर्मण्यनभिहिते सति द्वितीया भवतीत्यर्थः श्रत एवाभिधानाभावः कर्मनिष्ठो द्वितीयावाच्यतायां न निवि
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy